OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 26, 2023

 डोणाड् ट्रम्पः स्वयंसमर्पितः;   निगृहीतश्च। 


२०२० तमे निर्वाचने जोर्जियाफलं व्युत्क्रमयितुं गूढचिन्तनं कृतमिति हेतुः। 

वाषिङ्टण्> २०२० तमस्य यू एस्  राष्ट्रपतिनिर्वाचने जोर्जियाराज्यस्य फलं व्युत्क्रामयितुं गूढचिन्तनं कृतम् इति प्रकरणे भूतपूर्वः राष्ट्रपतिः डोणाड् ट्रम्पः जोर्जियाकारागारे  स्वयंसमर्पितः। अनन्तरं निग्रहणम् उल्लेख्य लक्षद्वयं डोलर् परिमितस्य प्रतिज्ञापत्रव्यवस्थानुसारेण  प्रातिभाव्ये मोचितः च। उपधापर्यन्तमेव प्रातिभाव्यकालः। 

  जोर्जियायां अत्लान्टा नगरस्थे 'फुल्टण् कौण्टि' कारागृहे आसीत् ट्रम्पस्य आत्मसमर्पणम्। निग्रहणप्रक्रमाणामंशतया तस्य छायाचित्रं मुद्रितम्। कस्यचन भूतपूर्वस्य एतादृशं छायाचित्रमुद्रणं चरित्र एव प्रप्रथममिति सूच्यते। चित्रग्राहिणीं प्रति कोपाविष्ठाभ्यां नेत्राभ्यां पश्यमानस्य ट्रम्पस्य चित्रं पुनः कारागाराधिकृतैः बहिर्नीतं च।