OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 7, 2023

 चन्द्रयानं ३ - भ्रमणपथस्य अधःकरणं विजयकरम्। 

यानस्थया छायाग्राहिण्या संगृहीतं चन्द्रोपरितलदृश्यम्।

बङ्गलुरु> चन्द्रस्य भ्रमणपथं प्राप्तस्य 'चन्द्रयानं तृतीयम्' इत्यस्य  प्रथमं भ्रमणपथनिम्नीकरणं विजयकरमभवत्। अनया प्रक्रियया यानं चन्द्रोपरितलात् परमतया ४३१३ कि मी परिमितं , अल्पतया १७० कि मी परिमितं च दूरस्थं भ्रमणपथं प्राप्तम्। भ्रमणपथनिम्नीकरणाय आगामी प्रक्रमः नवमदिनाङ्के मध्याह्ने विधास्यतीति इस्रो [ISRO] संस्थया निगदितम्। 

  चान्द्रभमणपथप्रवेशः यदा अभवत्, अचिरादेव छायाग्रहिण्या गृहीतं चन्द्रदृश्यं गतदिने बहिर्नीतम्। ३६ सेकन्ड् परिमितयुक्ते चलनदृश्ये चन्द्रोपरितले वर्तमानाः गर्ताः स्पष्टतया द्रष्टुं शक्यन्ते। आगामिदिनेषु विविधैः सोपानैः भ्रमणपथं क्रमशः निम्नीकृत्य १७ तमे दिनाङ्के यानं चन्द्रोपरितलात् १०० कि मी परिमितम् उन्नतिं प्रापयिष्यति।