OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 19, 2023

 जनधन वित्तलेखाः ५० कोटिम् अधिगताः।

       प्रतिगृहं न्यूनातिन्यूनः एकः वित्तलेखः इति कल्पनया आरब्धाः'जनधन' वित्तलेखाः (Bank Account)५० कोट्यधिकैः जनैः स्वीकृताः इत्यस्मिन् विषये प्रधानमन्त्री नरेन्द्रमोदी सन्तोषं प्रकटितवान्। एतेषु ५६% वित्तलेखाः स्त्रीभरेव स्वीकृतााः इत्येतत् मोदाय भवति इत्यपि प्रधानमन्त्रिणा उक्तम्। जनधन वित्तलेखाः ५० कोट्यतीताः इति गृहमन्त्रालयेन विगते दिने एव विज्ञापितमासीत्। एतेषु ६७% वित्तलेखाः ग्रामीणमण्डलतः भवन्ति। वित्तकोशसेवा समाजस्य अन्तिमस्तरे वर्तमानेभ्यः अपि भवतु इति परिकल्प्य आरब्धा भवति इयं योजना। भारते वासं कुर्वद्भ्यः दशवयस्कादारभ्य सर्वेभ्यः अस्यां योजनायां भागं स्वीकर्तुं शक्यते। वित्तलेखे शुन्यशेषराशिसुविधा अपि अस्ति। भागग्रहीतृभ्यः दुर्घटनापरिरक्षा अपि लभते।