OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 19, 2023

 मणिपुरे पुनरपि भुषुण्डिप्रयोगः; त्रयः युवकाः मारिताः। 

इम्फालः> वंशीयसंघर्षेण कलुषिते मणिपुरराज्ये सप्ताहस्य विरामानन्तरं शुक्रवासरस्य प्रत्युषसि भुषुण्डिप्रयोगः अभवत्। 'उख्रुल'जनपदस्थे कुक्कि तोवायनामकग्रामे सञ्जातेन भुषुण्डिप्रयोगेण त्रयः युवकाः मारिताः। मृतशरीराणि विकृतानि दृष्टानि। 

  मणिपुरे अनुवर्तमानानि अक्रमप्रवर्तनानि समापयितुं शीघ्रमेव प्रक्रमाः करणीयाः इति राष्ट्रस्य नानाप्रदेशतः निवेदनानि प्रवहन्ति।