OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 15, 2023

 आगामिषु पञ्चसु संवत्सरेषु  त्रयाणां विकसितराष्ट्राणां मध्ये भारतम् अपि भविष्यति - नरेन्द्रमोदी |

    नवदिली> समगतेषु पञ्चसंवत्सरेषु  त्रयाणां विकसितराष्ट्राणां मध्ये भारतम् अपि भविष्यति इति  भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। भारतस्य ७७ तमे स्वतन्त्रतादिनसमारोहे ध्वजारोहणं कुर्वन् भाषमाणः आसीत् सः। भारतस्य प्रगति परिक्रमस्य नेतृस्थानेषु स्त्रियः एव सन्ति। व्योमयान मण्डलेषु पुरुषापेक्षया स्त्रीणां संख्या वर्धिता अस्ति। वनितावैज्ञानिकाः एव चन्द्रयानयोजनां नयन्ति। राष्ट्रस्य सीमनि वर्तमानाः ग्रामाः अन्तिमाः इति व्यवहृताः आसन्। किन्तु इदानीं एते प्रथमाः एव। अद्यतनस्य कार्यक्रमस्य विशिष्टातिथयः ६०० ग्रामतः समागताः इति मोदाय भवति इत्यपि मोदिना उक्तम्।