OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 17, 2023

 पुतुप्पल्लिमण्डले निर्वाचनचित्रं स्पष्टमभवत्। 

मुख्यदलैः स्थानाशिनः प्रख्यापिताः। 

कोट्टयं> पुतुप्पल्लि विधानसभामण्डले सेप्तम्बरमासस्य पञ्चमे दिनाङ्के प्रचाल्यमानाय  उपनिर्वाचनाय मुख्यराजनैतिकदलानां स्थानाशिनिर्णयः विधत्तः। भूतपूर्वमुख्यमन्त्रिणः उम्मन् चाण्टिवर्यस्य मृत्युहेतुत्वादेव उपनिर्वाचनं विहितम्। 

   यू डि एफ् संघस्य स्थानाशिरूपेण उम्मन् चाण्टिवर्यस्य पुत्रः चाण्टी उम्मन् कोण्ग्रस् दलस्य प्रतिनिधिरूपेण निर्णीतः। वामपक्षसंघस्य स्थानाशिः सि पि एम् दलीयः जैक् सि तोमसः निश्चितः। भा ज पा दलाय दलस्य कोट्टयं जनपदाध्यक्षः लिजिन् लालः स्पर्धिष्यते। 

  त्रयः अपि मुख्यस्थानाशिनः नामाङ्कनपत्रिकाः समर्पितवन्तः। त्रयाणां प्रचरणमपि ऊर्जितेन प्रचलदस्ति।