OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 9, 2023

 चलच्चित्रनिदेशक‌ः सिद्दिखः दिवंगतः। 


कोच्ची> कैरलीचलनचित्रमण्डले विख्यातः निदेशकः सिद्दिख् नामकः गतरात्रौ दिवंगतः। ६३ वयस्के तस्मिन्  उदररोगकारणेन एरणाकुलम् अमृता आतुरालये परिचर्यायां वर्तिते हृदयस्तम्भनेनैव मरणमभवत्। 

  'सिद्दिख् लाल्' इति प्रसिद्धेन  निदेशकद्वन्द्वेन नैकानि हास्यरसप्रधानानि चलच्चित्राणि आस्वादकलोकस्य मुक्तकण्ठप्रशंसां प्रापुः। अनवरतं ४०५ दिनानि चलच्चित्रशालासु प्रचलितं 'गोड्फादर्' नामकं चलच्चित्रं श्रेष्ठतरं वर्तते।  

  ततः सिद्दिखः एकेनैव १३  चलच्चित्राणां निदेशनं कृतवान्। चलनचित्रमण्डलात् तस्य वियोगः बहुनष्टः इति प्रमुखाः अनुस्मृतवन्तः।