OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 30, 2023

 नीरज चोप्रः प्रासमहाराजः।




 

प्रासक्षेपणे ओलिम्पिक्स् सुवर्णेन सह विश्वकायिकस्पर्धायामपि सुवर्णप्राप्तिः।

बुडापेस्ट> मध्ययूरोपस्थस्य  हङ्गरीराष्ट्रस्य राजधान्यां बुडापेस्ट् नगरे आयोजिते विश्वकायिकवीरताप्रदर्शने भारतस्य नीरज चोप्रः कुन्तक्षेपणस्पर्धायां सुवर्णपतकेन विश्वविजयी जातः। ८८. १७ मीटर् परिमितं दूरं कुन्तक्षेपणं कृत्वा एव सः विश्वकिरीटं प्राप्तवान्। टोकियो ओलिम्पिक्स् स्पर्धायाम्, एष्यन् गयिंस्, कोमण्वेल्त् गयिंस्, डयमण्ड् लीग् इत्यादिषु स्पर्धासु च तेन सुवर्णपदकं प्राप्तम्। 

  ८७. ८२ मीटर् परिमितक्षेपणेन पाकिस्थानीयः अर्षादनदीमः रजतं, ८६. ६७ मीटर् परिमितक्षेपणेन चेक् राष्ट्रस्य याकूब वेदलः कांस्यपतकं च प्राप्तवन्तौ।