OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 9, 2023

 मण्णारशाला अम्बा उमादेवी अन्तर्जनम् दिवङ्गता।

   केरलम्> आलप्पुष़ा जनपदे हरिप्पाट् देशे प्रसिद्घनागराजमन्दिरस्य मुर्ख्यार्चका दिव्यश्री उमादेवी अन्तर्जनं (९६)दिवङ्गता। मण्णारशालाभवने बुधवासरे प्रातःकाले आसीत् अन्त्यम्। १९९३ तमे संवत्सरे पूर्वतन मण्णारशाला अम्बा सावित्री अन्तर्जनं यदा दिवङ्गता तदा उमादेवी अन्तर्जनं मन्दिरस्य अम्बापदवीम् आरूढवती। मण्णारशालामन्दिरे पूजाकर्माणि कृतवत्यः अन्तर्जनाः एव मण्णारशाला अम्बा इति नाम्ना व्यवह्रियन्ते। (केरलेषु ब्राहमणस्त्रियः सामान्येन अन्तर्जनम् इति नाम्ना व्यवह्रियन्ते)