OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 9, 2023

 केरलम् अभिव्याप्य सप्त मण्डलेषु सेप्तम्बर् पञ्चमे दिनाङ्के उपनिर्वाचनम्। 

नवदिल्ली> केरलस्य पुतुप्पल्ली विधानसभामण्डलमभिव्याप्य राष्ट्रस्य विविधेषु विधानसभामण्डलेषु सेप्तम्बर् पञ्चमे दिनाङ्के उपनिर्वाचनानि भविष्यन्ति इति केन्द्र निर्वाचनायोगेन निगदितम्।  विज्ञापनं गुरुवासरे भविष्यन्ति। नामाङ्कनपत्रिकासमर्पणं १७ तम दिनाङ्कपर्यन्तं कर्तुं शक्यते। १८ तमे सूक्क्ष्मपरिशोधना भविष्यति। २१ तमदिनाङ्कपर्यन्तं पत्रिकाप्रतिनिवर्तनाय अवसरः अस्ति। सेप्टम्बर् पञ्चमे दिनाङ्के मतदानविनियोगः भविष्यति।  मतगणना अष्टमदिनाङ्के भविष्यति। 

   केरले पुतुप्पल्ली विधानसभामण्डले भूतपूर्वमुख्यमन्त्रिणः उम्मन् चाण्टिवर्यस्य निर्याणहेतुत्वादेव उपनिर्वाचनं विहितम्। तथा च झार्खण्डस्य डुम्रि, त्रिपुरस्य बोक्सा नगरं, धनपुरं, वंगदेशस्य धुप् गुरी, उत्तरप्रदेशस्य घोसि, उत्तरखण्डस्य बागेश्वरम् इत्येतेषु मण्डलेषु च उपनिर्वाचनन् उद्घुष्टम्।