OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 13, 2023

एकादशी-श्रीमद्भगवद्गीता-राष्ट्रिय-व्याख्यानगोष्ठ्याः षोडशः पर्यायः सम्पन्नः

    चातुर्वेदसंस्कृतप्रचारसंस्थानेन प्रत्येकम् एकादश्यां तिथावियं वर्चुवलमाध्यमेन समायोज्यते। अस्याः आयोजनं त्रिपुरा केन्द्रीय विश्वविद्यालयः, नागरिक-स्नातकोत्तर-महाविद्यालयः, जंघई-जौनपुरम् इत्यनयोः संयुक्ततत्त्वावधाने समायोजिता आसीत्। 

   'गीता एवं व्याकरणपरिप्रेक्ष्ये कर्मविमर्शः' इति विषये प्रो.प्रमोदकुमारशर्ममहोदयो बहुसम्यक्तया व्याख्यातवान्। जवाहरलालनेहरूविश्वविद्यालयतः शर्मवर्यो विशिष्टवक्तारूपेण कर्म विषये व्याकरण, दर्शनादिदृष्ट्या स्वरूपं प्रोवाच । तत्र गीतायां कर्म किमिति बोधयन्नाह अष्टमेsध्याये अर्जुनः पृच्छति 'किं कर्म पुरुषोत्तम? एवं पृष्टे सति श्रीभगवानुवाच 'विसर्गः कर्मसंज्ञितः। एवमेव 'गीतायाः परिप्रेक्ष्ये मानवव्यक्तित्वस्य गवेषणा' विषयेsस्मिन् जयनारायण जोधपुर विश्वविद्यालयतः प्रो.सरोजकौशल महोदया मुख्यवक्त्रीरूपेण सारगर्भितं सा अवदत् यद् गीता मानवसमाजस्य कर्मसंहिता अस्ति । एषा मोक्षमपि ददाति जीवनमपि सार्थकतां प्रति नयति। षष्ठेsध्याये भगवान् श्रीकृष्ण उवाच 'आत्मौपम्येन सर्वत्र समं पश्यति योsर्जुन।' अत्र सर्वत्रेति पदं सर्वसमाजपन्थधर्मादिषु समत्वं स्वीकरणीयमस्ति। गीता आह्वयति, सचेतं करोति।

 'उद्धरेदात्मनात्मानं नात्मानमवसादयेत्। 

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः।। ६/५ 

  अतः सर्वत्र गीतास्वाध्यायो भवेत्। गोष्ठ्यामादौ डॉ॰ दीपककुमारशर्मा, वाराणसीतो वैदिकं मङ्गलाचरणं ब्रिटेनदेशतः फ्रांसिस रोज कनिंघम गीताश्लोकपाठञ्चैतौ कृतवन्तौ। प्रो.राजीवमालवीयः समेषां स्वागतपूर्वकं प्रास्ताविकं भाषणमकरोत्। इत एव डॉ॰ पवनकुमारपाण्डेयः संस्कृताचार्यः गोष्ठीं सञ्चालितवान्। आयोजकविश्वविद्यालयस्य प्रो.शिप्रा राय महोदया सभाध्यक्षा आसीत्। तत एव समन्वयकः डॉ॰ शंकरनाथतिवारी सर्वेभ्यः कृतज्ञतां ज्ञापितवान्। 

  अवसरेSस्मिन् प्रो.भगवत शरणशुक्लः, प्रो.मञ्जूलताशर्मा, डॉ॰ गीताशुक्ला, श्री जगदानन्द झा, डॉ॰ रेखारानीबंसल, डॉ॰ अरविन्दतिवारी प्रभृतयो जिज्ञासवो विद्वांसः, शोधार्थिनः, छात्राश्चोपस्थिता आसन्। अन्ते संयोजकः डॉ॰ चन्द्रकान्त दत्तशुक्लः शान्तिपाठेन गोष्ठ्यां सम्पूर्तिं कृतवान्।