OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, July 6, 2019

आयव्ययपत्रकं गुणदोषसम्मिश्रम्। 
सामान्यजनानां जीवनव्यवस्थां कठिनायते।  राष्ट्रस्य सम्पद्व्यवस्थाविकासः लक्ष्यीक्रियते। 
नवदिल्ली > राष्ट्रस्य प्रथमवनितावित्तमन्त्रिणा निर्मलासीतारामेण प्रस्तुतम् आयव्ययपत्रकं गुणदोषसम्मिश्रम्। तैलेन्धनादीनां मूल्यं वर्धिष्यते इत्यतः सामान्यजनानां जीवनं कठिनं भवेत्। किन्तु राष्ट्रस्य समग्रं दीर्घकालविकासं लक्ष्यीकृत्य आयोज्यमानाभिः परियोजनाभिः आर्थिकव्यवस्थायाः प्रगतिश्च परिकल्प्यते।
राष्ट्रे   दशसंवत्सराभ्यन्तरे प्रचाल्यमानाः दश परियोजनाः निर्मला सीतारामेण आयव्ययपत्रके प्रख्यापिताः। भौतिकं सामाजिकं च आधारसुविधाः, मालिन्यरहितं सस्यश्यामलकोमलं भारतं, 'मेय्क् इन् इन्डिया' परियोजनया लघूद्योगानां प्रारम्भः, गगनयान - बहिराकाशपरियोजनाः इत्यादयः तासु अन्तर्भवन्ति। 

विश्वस्य बृहत्तमाय प्रतिरोधसन्धये  भारतम् । ११४ युद्धविमानानी क्रेष्यते।
     नवदिल्ली> विश्वस्य बृहत्तमाय प्रतिरोधसन्धये  भारतेन प्रक्रमाः समारब्धाः। ११४ युद्धविमानानि क्रेतुं १५०० कोटि डोलर् धनस्य विनिमयोपाधिः प्रारम्भस्तरे एव। विक्रय-प्रक्रमे भागं कर्तुं प्रतिरोधमण्डलस्य प्रथमस्थानीयाः संस्थाः तेषाम् औत्सुक्यं प्राकाशिताः। बोयिङ्, लोक्हीड्मार्टिन्, साब् ए.बि च भवन्ति एताः। निर्मितेः ८५% भारते भवितव्यम्  इति व्यवस्थाम् अनुसृत्य भवति सन्धिपत्रम् इति एतत्‌ अधिकृत्य संवत्सरात् पूर्वं प्रकाशिते प्रमाणपत्रे वदति। व्योमसेनायाः आवश्यकानि कानि इति इदानीं निर्णयं कुर्वन्ति इति व्योमयान-सहमन्त्रिणा श्रीपद् नायिकेने प्रतिनिधिसभायाम् उक्तम् 

Friday, July 5, 2019

कुलभूषणजादवस्य नीतिव्यवहारे अन्ताराष्ट्र न्यायालयस्य निर्णयः जूलई १७ दिनाङ्के।
 
   नवदिल्ली> भूतपूर्व-नाविकसैनिकस्य कुलभूषणजादवस्य नीतिव्यवहारे अन्ताराष्ट्र न्यायालयस्य निर्णयः जूलई १७ दिनाङ्के भविष्यति। निवृत्तसैनिकः कुलभूषण-जादवः पाकिस्थानस्य सैन्येन गृहीतः आसीत्I चारवृत्तिमारोप्य पाकिस्थानस्य सैनिकन्यायालयेन तस्मै मृत्युदण्डः निर्णीतः। पाकिस्थानस्य अन्यायनिर्णयं विरुद्ध्य भारतसर्वकारेण अन्ताराष्ट्र न्यायालये नीतिव्यवहारः दत्तः। व्यवहारेऽस्मिन् जूलैमासस्य १७ दिनाङ्के अन्ताराष्ट्रन्यायालयेन निर्णयः वक्ष्यति। 
    २०१७ ऐप्रिल् मासे आसीत् पाकिस्थानस्य सैन्येन तस्य ग्रहणम्। किन्तु भारतस्य न्यायव्यवहारे अन्ताराष्ट्र न्यायालयेन मेय् १८ दिनाङ्गे पाकिस्थानस्य सैनिकन्यायालयस्य मृत्युदण्डः रोधितः आसीत्I

Thursday, July 4, 2019

आर्थिकसर्वेक्षणस्य लक्ष्यं पञ्चलक्षं कोटि डोलर् धनस्य साम्पतिक-व्यवस्था-परिपुष्टिः - नरेन्द्रमोदी।

     नवदिल्ली> धनमन्त्रिणी निर्मला सीताराम महाभागया अद्य लोकसभायं प्रकाशितं आर्थिकसर्वेक्षणम् राष्ट्रस्य आर्थिकवर्धनस्य रूपरेखा कथम् इति स्पष्टीक्रियते इति नरेन्द्रमोदिना  उक्तम्। ऊर्ज मण्डलेषु, साङ्केतिक मण्डलेषु तथा सामूहिकमडलेषु च वर्धनं साम्पतिक सर्वेक्षणं  प्रतिपाद्यते इति टिट्वर् माध्यमेन सः उक्तवान् I 
    २०१९ - २०२० संवत्सरे राष्ट्रस्य आर्थिकवर्धने उन्नतिः भविष्यति इति सर्वेक्षणे संसूचितम्। आर्थिकपरिपुष्टिमानः ६.८ तः ७ इति वर्धनं स्यात्। 
भीकराक्रमणं निवारयितुं न शक्यम् - श्रीलङ‌कायाः आरक्षकाध्यक्षः बन्धितः। 
   कोलम्बो> २५८जनानां मृत्योः निदानभूतः ईस्टर् दिनभीकराक्रमणं निवारयितुं न शक्यम् इति कारणेन श्रीलङ‌कायाः आरक्षकाध्यक्षः बन्धितः। आरक्षकाधिकारी 'इन्स्पेक्टर् जनरल् पूजित् जयसुन्दरः भवति एवं बन्धने। तेन सह भूतपूर्व प्रतिरोधसचिवः हेमसिरि फेर्णाण्डो अपि बन्धितः अस्ति। सुरक्षा सूचनायाः अवगमने पराजयम् अभवत् इत्येतत्  उत्तरदायिनां मनुष्याणां अपराधः इति कृत्वा एव दण्डनं दीयते इति  'श्रीलङ्कायाः अट्टोणि जनरल्' इत्यनेन संसूचितम् आसीत्।
राहुलगान्धी कोण्ग्रस्दलाध्यक्षपदम् अत्यजत्। 
नवदिल्ली >  भारते 'इन्डियन् नाषणल् कोण्ग्रस्' नामकराजनैतिकदलस्य देशीयाध्यक्षः राहुल् गान्धी तत्स्थानं त्यक्तवान्। लोकसभा निर्वाचने प्रायशः आराष्ट्रं कोण्ग्रस्दलस्य दयनीयपराजयस्य धार्मिकम् उत्तरदायित्वं स्वीकृत्य एव स्थानत्यागः। ह्यः 'ट्विटर्' द्वारा त्यागप्रख्यापनं कृतवान्। 
  मासैकस्मात् पूर्वमेव राहुलः पदत्यागाय सन्नद्ध आसीत्। किन्तु अधोमण्डलनेतृणाम् अनुयायिनां च विमतेन कालविलम्बः अभवत्। दलस्य शक्तीकरणाय कदाचित् तीक्ष्णः निर्णयः अवश्यं भवेदिति ट्विटर् द्वारा तेनोक्तम्। 
  आगामिनि वारे प्रवर्तकसमितिम् आहूय नूतनाध्यक्षचयनं भविष्यतीति सूच्यते।

Wednesday, July 3, 2019

अतिवृष्टिः, मुम्बै प्रदेशे ३५ जनाः मृताः।
   मुम्बै> पञ्चदिनानि यावत्  अनुवर्तमानः अतिवृष्ट्या ३५ जनाः मृताः। रैल्पथाः जले निमज्जिता:, रैल् गातागतानि स्थगितानि। ११७५ संवत्सरा नन्तरं जाता अतिवृष्टिः भवति एषा। अन्ताराष्ट्र विमाननिलयस्य धवनपन्थाः मध्याह्नपर्यन्तं पिधानं कृतम्। ५२ विमानानां सेवानिवृत्तिः कृता । शैक्षिकसंस्थायै विरामः प्रख्यापितः आसीत्। कुरार् ग्रामे भित्तिः  पतित्वा २० जनाः निहताः। मित्ति नदी कूलम् अतिक्रम्य प्रवहति। ततः सहस्राधिकाः देशान्तरं प्रेषिताः।

Tuesday, July 2, 2019

मुम्बैनगरे अतिवृष्टिः, जनजीवनं स्तब्धम्, सर्वजनिक-विरामः प्रख्यापितः।
      मुम्बै> अतिवृष्टिः अनुवर्तते इति कारणेन मुम्बैप्रदेशे सर्वकारेण सार्वजनिकविरामदिनः घोषितः। अत्यवश्य सेवा एव अद्य लभ्यमाना अस्ति। मुम्बै अतिरिच्य नवि मुम्बै, कोङ्कण्, ताने प्रदेशेषु शैक्षिक-संस्थायै सर्वकारेण विरामः निर्दिष्टः।
     वृष्ट्या रथ्या, रैल् व्योम गतागतानि स्थगितानि। अतिवृष्ट्या भित्तिः पतित्वा मलाट् देशे १३ जनाः, पूणे देशे ६ जनाः च मृताः। मृतानां कुटुम्बेभ्यः ५ लक्षं रूप्यकाणि साहाय्यधनं प्रख्यापितम् अस्ति। विविध भागेषु गतागतं पूर्णतया स्थगितं वर्तते। मुम्बै नगरस्य नीचतल प्रदेशाः जलान्तर्भागे वर्तते। अत्र इदानीमपि वृष्टिः अनुवर्तते इत्यस्ति आवेदनम्।
स्वदेशीय चिन्ता- ३००० वैदेशिककर्मकराः कुवैत् राष्ट्रतः निष्कास्यन्ते।

 कुवैत् सिट्टि> समागते आर्थिकसंवत्सरे ३००० वैदेशिककर्मकरान् निष्कासयितुं कुवैत्त् सर्वकारेण निश्चितम्। आगामि पञ्चवर्षाभ्यन्तरे सार्वजनिक मण्डलेषु १००% स्वदेशीयानां कर्माकराणां नियुक्तिः उद्दिश्यते। वैदेशिकान् प्रशासनीय-कर्मकरान् निष्कासयित्वा स्वदेशीयान् नियोक्तव्यमित्यस्ति आदेशः। मन्त्रिसभायाः अनुज्ञया भवति सार्वजनिकायोगस्य आदेशः। आदेशम् अनुसृत्य शिक्षामन्त्रालयेन निष्कासनाय पट्टिका सज्जीकृता अस्ति। विगतेषु मासेषु शैक्षिक मन्त्रालयेन १७६ वैदेशिकाः, धर्ममन्त्रालयेन २२०, जल-वैद्युतमन्त्रालयेन ३१ वैदेशिककर्मकराः च परित्यक्ताः आसन्।
काबूले कार्-यानेन विस्फोटः- ३४ जनाः निहताः।

  काबूलम्> अफ्गानिस्थानस्थे काबूल देशे यू ए स् दूतावासगृहस्य समीपे जातेन विस्फोटनेन ३४ जनाः निहताः। ६५ जनाः क्षताः इति च आवेद्यते। अतङ्किना एव विस्फोटः कृतः इति अफ्‌गानस्य आभ्यन्तरमन्त्रालयेन कथ्यते।
    रविवासरे उषसि एव विस्फोटः अभवत्। क्रय-विक्रयणय जनाः रथ्यां प्रति समागच्छान्  असीत् तदानीम्। विस्फोटनस्य उत्तरदायित्वं कोऽपि न स्वीकृताः
तालिबान् , इस्लामिक्‌स्टेट्  इत्यादिभिः भीकरदलैः परिवृतोऽयं प्रदेशः। 

Monday, July 1, 2019

भारत-पसफिक् मण्डलेषु नाविकसेनया अतिजाग्रता पालनीया- राजनाथ सिंहः।
 
   नवदिल्ली> चीनस्य हस्तक्षेपः वर्धितः इत्यनेन मण्डलेषु अत्यधिक जाग्रता नाविकसेनया पालनीया इति प्रतिरोधमन्त्रिणा राजनाथसिंहेन आदिष्टा। चीनस्य प्रवर्तनेषु अधिक-निरीक्षणानि आवश्यकानि इति च तेनोक्तम्। विशखपट्टणस्थ नाविककेन्द्रे वरिष्ठोद्योगिनः संबुद्ध्य भाषमाणः आसीत् सः।
    पूर्वस्यां दिशि विद्यमानेन राष्ट्रेण सह नरेन्द्रमोदी सर्वकारस्य नूतन-नयानुसारेण नाविकसेनायै सुप्रधानं दायित्वमस्ति। सेनायाः शक्तिः वर्धापनीया च। समुद्रमार्गेण जायमानां भीषां रोद्धुं राष्ट्रसुरक्षां शक्तं कर्तुं च नितान्तावधानता आवश्यकी इत्यपि तेन उक्तम्। 
केरलपुनर्निर्माणाय जर्मनिराष्ट्रस्य १४०० कोटि रूप्यकाणि। 
प्रलयानन्तरकेरलस्य पुनर्निर्माणाय जर्मनीयसर्वकारस्य 'के एफ् डब्ल्यू' नामिकायाः आर्थिकसंस्थायाः ऋणं स्वीकर्तुं केन्द्रसर्वकारस्य अनुमतिः लब्धा। २०कोटि डोलर् परिमितानि [प्रायः १४०० कोटिरूप्यकाणि] केरलाय लब्धुमर्हन्ति। 
  विश्ववित्तकोशात् १७२५ कोटिरूप्यकाणां साहाय्यमनुगम्य एव जर्मन्याः ऋणसाहाय्यं लभते। एतद्धनं सार्वजनीनवीथीपुनर्निर्माणविकासपरियोजनायै उपयुज्यते।
शक्ता वर्षा- महाराष्ट्रेषु यानानां गमनवेलायां मार्गः जलप्रवाहे भग्नः।
    जल्न (महाराष्ट्रम्)> मरात् वाडस्थ जल्न देशो अतिवृष्ट्‌या जायमानेन जल-प्रवाहेन मार्गः द्विधा भाग्नः। यानानां गमनवेलायामासीत् दुर्घटना। अस्याः चलनदृश्यानि वार्ताहर संस्थया प्रसारिता। एकस्य यानस्य गमनवेलायां पृष्टतः मार्गः भग्नम् अभवत्। भाग्यवशात् यानं रक्षां प्राप्तम्। शुक्रवासरादारभ्यय प्रदेशेषु नितरां वृष्टिः आसीत्। राज्ये सर्वत्र नाशः जायते।
गतदिने वृष्टिवेलायां पूण देशे भित्तिः पतित्वा १५ जनाः मारिताः आसन्। रविवासरे अपि नगरस्य विविधभागाः जलेन आप्लाविताः आसन्। अतः गतागतः क्लेशपूर्णः आसीत्। घाट् कोपर् देशे आलयः वृष्ट्या पतितः अस्ति।

Sunday, June 30, 2019

नरेन्द्रमोदिनः 'मनोगतम् ' इति कार्यक्रमः पुनरारब्धः
जनप्रियः कार्यक्रमः आसीत् नरेन्द्रमोदिनः मन की बात इत्येषः। आकाशवाणिद्वारा प्रसारितः अयं कार्यक्रमः विगतसर्वकारस्य (एन् डि ए) अभिमानात्‍मक -कार्यक्रमः आसीत्|  विपक्षदलीयैरपि श्लाघितः बहुवारम्।  भारतस्य विविधासु भाषासु अनूद्य कार्यक्रमः आकाशवाणि द्वारा प्रसारितः अस्ति। संस्कृतभाषायां भाषिकानुवादं कृत्वा भारतस्य वरिष्ठवार्तावतारकः डा. बलदेवानन्दसागरः स्वस्य शब्दमाधुर्येण अस्मान् श्रावितवान् च आसीत्। अस्य दृश्यरूपम् अन्तर्जाजालवाहिनिद्वारा सम्प्रतिवार्तायाः दृश्यवाहिन्यां प्रसारयति। सर्वेषां संस्कृतप्रेमिणां पुरतः सादरं समर्पये  'मनोगतम् २.०१'
संस्कृतमातरं नत्वा
सम्पादकः

'मनोगतम्’ –  २.०१ [प्रथमः भागः]   
   ‘मन की बात’ (२.o१)               प्रसारण-तिथि: - ३०-६-२०१९                                 
                  - संस्कृत-भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः
            मम प्रियाः देशवासिनः, नमस्कारः | दीर्घान्तरालानन्तरं, पुनरेकवारं, भवतां सर्वेषां मध्ये, ‘मन की बात’-मनोगतम्, जन-वृत्तम्, प्रत्येकमपि जनस्य मनोगतम्, जन-मनोगतम्’- अस्य सातत्यं वयं प्रारभामहे | प्रपञ्च-बहुलेषु निर्वाचनेषु, सत्यपि कार्यबाहुल्ये, ‘मन की बात’-इत्यस्य प्रसार्य-कार्यक्रमस्य यः आनन्दः अस्ति, सः विलुप्तः आसीत् | किञ्चित् नैयून्यम् अनुभवामि स्म | आत्मीयानां मध्ये उपविश्य
इयम् आकाशवाणी सम्प्रतिवार्ताः श्रूयन्तां .... इति वार्ताः ।


 नवदिल्ली> संस्कृतवार्ताप्रसारणमारभ्य अद्य ४५ तमः संवत्सराः। अकाशवाणीद्वारा संस्कृतवार्ताप्रसारणं सामारभ्य ४५ संवत्सराः अतीताः। सामान्य-जनानां मनसि संस्कृतभाषां प्रति आदरः, संस्कृतभाषायाः माधुर्यं, लालित्यम् इत्यादयः च आकाशवाण्याः वार्ताप्रसारणेन उपलब्धाः इति वदामः।  संस्कृतं नाम भाषा अस्ति। तां श्रवणेन अवगन्धुं शक्यते इत्यादि भावना जनहृदयेषु प्रसृता वर्तते।
१९७५ जूण् मासस्य ३० तमे दिनाङ्के आसीत् प्रथम-संस्कृतवार्ता-प्रसारणम्। 
संस्कृताभियानम्
-डा. विजयकुमार मेनन्, डीन्,
कविकुलगुरु कालिदास विश्वविद्यानलयः, महाराष्ट्रम्

  नमांसि, केचन वदन्ति ' संस्कृतसम्भाषणं महान् विषय: न, शास्त्रज्ञानम् इति महान् विषय:। अत्र, तत्र,कुत्र इति सामान्यसम्भाषणेन किम्, शास्त्राध्ययनं कथमिति चिन्तनीयम्'  इति। शास्त्रज्ञानं तु निश्चयेन महान् विषय:। परन्तु इदानीं छात्राणां शास्त्रेषु तलस्पर्शिज्ञानं न भवति चेत् किमर्थं न भवति? इति चिन्तनीयम्। वस्तुत: अद्यतनछात्राणां संस्कृतभाषया भाषणसामर्थ्याभावात् शास्त्रपङ्क्तीनां स्वमनसि उपस्थापनं सरलतया न भवति। अत: शास्त्रछात्राणां कृते अपि संस्कृतसम्भाषणम् अत्यन्तम् अनिवार्यम्।मित्राणि वयं  तदर्थं छात्रान् प्रेरयामहे। जयतु संस्कृतम् जयतु भारतम्

Saturday, June 29, 2019

जलं न अवसीयते रेल्याने - केन्द्रसर्वकारः।
 
     नवदिल्ली> रेल् यात्रिकैः अभिमुखी क्रियमाणा समस्या भवति जलदौर्लभ्यः। जलदौर्लभ्यस्य परिहाराय केन्द्रसर्वकारः नूतनं पदक्षेपं करिष्यति।  यात्रा वेलायां जलपूरणाय सम्मर्द-जलोत्क्षेपणी संस्थाप्यते इति केन्द्र-रेलयानमन्त्री पीयूष् गोयलः अवदत्। रेलयानान्तर्गतानि जलसंभरणानि यात्रावेलायां त्वरितवेगेन पुनःपूरणीयानि। तदर्थमेव भवति सम्मर्द-जलोत्क्षेपणी। पेयजलाय रेल् निस्थानेषु  शुद्धजलनिर्माण ( R. O) स्थानानि स्थानानि स्थापयन्तः सन्ति। राज्यसभायां सभाङ्गस्य बिनोय् विश्वस्य प्रश्नोपरि समाधानरूपेण मन्त्रिणा पियूष् गोयलेन उक्तम् इदम्।
प्रलयानन्तरपुनर्निर्माणार्थं केरलाय विश्ववित्तकोशस्य अर्थसाह्यम्। 
 
     अनन्तपुरी> प्रलयानन्तरकेरलस्य पुनर्निर्माणाय विश्ववित्तकोशेन २५ कोटि डोलर् परिमितानां [१७२५ कोटिरूप्यकाणि] ऋणसाहाय्यं प्रथमसोपानरूपेण अनुमोदितम्। एतदर्थं केन्द्रसर्वकारः, केरलसर्वकारः, विश्ववित्तकोशश्च सन्धिं हस्तीक्षरीकृतवन्तः। धनं मासाभ्यन्तरे लप्स्ययते। 
   मुख्याः ऋणधनविनियोगः एवं कल्प्यते - गतागतमण्डलं, जीवनोपाधीनां परिपालनं, नगरासूत्रणं, वीथीपुनर्निर्माणं, नदीतटासूत्रणं, जलवितरणं, शुचित्वसेवनानि, कार्षिकनष्टनिगमानां विनियोगः।
G-२० अग्रोपवेशनम् अद्य सम्पूर्णताम् एतिl

    ओसाक्क> दिन द्वयस्य जि २० अग्रोपवेशनम् अद्य सम्पद्यते। जापान राष्ट्रस्थ ओसाका नगरे ह्यः आरब्धं भवति उपवेशनम्। प्रधानमन्त्री नरेन्द्रमोदी ब्रसील् प्रधानमन्त्री जयिर् बोल् सेनारे तथा इन्दोनेष्यस्य राष्ट्रपतिः जो जो विडोडाे प्रभृतिभ्यां सह चर्चाम् अकरोत्I वाणिज्यं राष्ट्र सुरक्षा आदि विषयेषु अद्य चर्चा प्रचलिष्यति। 'मनुष्य केन्द्रीकृतः भविष्यसमूहः' इत्यस्ति G-२० अग्रोपवेशनस्य ध्येयवाक्यम्। भारत अमेरिका जापानराष्ट्राणां ( त्रिराष्‌ट्रोपवेशनम्) संयुक्तोपवेशनमपि अभवत्‌।

Friday, June 28, 2019

अपराजितभारतम्। 
विन्डीसं प्रति भारतस्य विजयः १२५ धावनाङ्कानाम्। 
माञ्चेस्टर् > विश्वचषकक्रिक्कट् स्पर्धायां वेस्टिन्डीसं पराजित्य भारतस्य अश्वमेधम् उपान्त्यचक्रस्य समीपं वर्तते। भारतदलं स्वस्य पञ्चमे प्रतिद्वन्दे वेस्टिन्डीसं १२५ धावनाङ्कैः पराजितवत्। अनेन विन्डीस् दलं विश्वचषकपरम्परातः बहिर्गतम्। 
  'टोस्' प्राप्य कन्दुकताडनं स्वीकृतवता भारतेन निश्चिते क्षेपचक्रे २६८ धावनाङ्काः प्राप्ताः। नायकः विराट्कोली ७२ धावनाङ्कान् प्राप्य श्रेष्ठक्रीडकपदं प्राप्तवान्। एम् एस् धोनी ५६ धावनाङ्कान् प्राप्य अबाह्यः अवर्तत। परं विन्डीस्दलस्य ताडनावसरे भारतस्य मुहम्मद् षमी चतुरान् कन्दुक ताडकान् बहिर्गमयितवान्। विन्डीसस्य कन्दुकताडनं १४३ धावनाङ्कप्रापणेन समाप्तम्।

Thursday, June 27, 2019

अद्य भारत-वेस्टिन्डीस् प्रतिद्वन्दः। 
मान्चेस्टर् >  विश्वचषकक्रिक्कट् स्पर्धायाम् अद्य भारतं वेस्टिन्डीसं प्रति स्पर्धिष्यते। अद्य वेस्ट् इन्डीस् दलं पराजयते तर्हि विश्वचषकपरम्परातः बहिर्गमिष्यति इत्यतः तेषां अद्यतनस्पर्धा परमप्राधान्यमर्हति। किन्तु इतःपर्यन्तं पराजयं विना क्रीडन्तं भारतदलं प्रति विजयः अनिवार्यः। 
  गतदिनस्य प्रतिद्वन्दे न्यूसिलान्ट् दलस्योपरि पाकिस्थानस्य विजयः अभवत्।
शुद्धीकृते लवणे अधिकतया 'पोटास्यं फेरोसयनैड्'।

  मुम्बै> 'अयोडिन्' इति रासवस्तुना सह मिश्रिते  आपणे विक्रयमाणे शुद्धीकृते लवणे उग्रविषांशः अस्ति इति परीक्षितावेदनम्। यु एस् राष्ट्रस्य 'अनलटिकल् लबोरटरि' मध्ये कृते परीक्षणे आसीत् इदं प्रत्यभिज्ञानम्। भारते विक्रीयमाणेषु स्यूते निभृतलवणेषु भूरि एतादृशं 'पोटास्यं फेरोसयनैड्' इति विषलिप्तं भवति इति परीक्षणफलम्। अन्तरिक्षतः जलबाष्पकणान् स्वीकृत्य लवणस्य द्रवीकरणं न भवति। 'पोटास्यं फेरोसयनैड्' इति रासवस्तुनः संयोगेन। अनया रीत्या लवणस्य द्रवीकरणं दीर्घकालपर्यन्तं रोद्घुम् एव अधिकतया रासवस्तु प्रयोगः क्रियते इति वार्तां  प्रकाशयन् शिवशङ्कर् गुप्तः वार्ताहरमेलने उक्तम्। मुंबैस्थ गोधं  ग्रैन्स् आन्ट् फाम्स् प्रोडक्ट्स् अध्यक्षः भवति एषः।
  'पोटास्यं फेरोसयनैड्' इत्यस्य उपयोगेन कान्सर्, अतिकायत्वं, रक्तातिसम्मर्द्दः वृक्करोगः आदीनां कारणं भविष्यति। किलोमितानां लवणे यौगिकरूपेण ०.०६०० इत्यस्ति मात्रामानम्। किन्तु १.८५ तः ४.७१ पर्यन्तमस्ति मात्रामानम्। विषलिप्तलवणं विरुद्ध्य आन्तोलनाय उद्युतः अस्ति ९१ वयस्कः शिवशङ्कर गुप्तः। 

Wednesday, June 26, 2019

अलं वेदनया, हस्तौ खण्डनं कर्तुम् आवश्यमुन्नीय 'वृक्षमनुष्यः' 
 
         धाक्क> हस्तौ वृक्षशिखरमिव वर्धमानेन अपूर्वरोगेण पीडितः भवति बंग्लादेशस्थः अबुल् बजन्तरः। तस्य हस्तयोः २५ वारं शल्यक्रियाम् अकरोत्। वेदनाम् असहमानः एषः स्वस्य हस्तं कर्तयितुं भिषग्वरान् प्रार्थयति इदानीम्। २०१६ तः पञ्चविंशति शाल्यक्रियाः तस्य हस्तयोः पादयोः च कृता। किन्तु देहाश्मरिः वर्धिता। वेदनायाः आधिक्येन सः पुनरपि आतुरालयं प्राविशत्। तस्य माता अपि वदति तस्य आवश्यम् अङ्गीकुर्वति।  अनेन प्रकारेण  हस्तस्य वेदना निवारयितुं शक्त्यते चेत्‌ तदेव किल वरम् इति तस्य माता अपि पृच्छति।
        विदेशेषु गमिष्यति चेत् उत्तमचिकित्सां लभेत इति तस्याः विश्वासः। किन्तु अर्थिकक्लेशः एव समस्या। आर्जितावेदनानुसारं विश्वे षट् संख्यापरिमिताः‌ जनाः एव अनेन रोगेण पीडिताः इति अस्माकम्  लब्धं ज्ञानम्। शारीरे जायमानस्य 'चर्मकील'स्य (Warts) त्वरितवर्धनमेव वृक्षमनुष्य रोगः (Treenan dindrom) इति कथ्यते । पादौ हस्तौच चर्मकीलेन वृक्षशिखराणि इव रूपान्तरं भविष्यति इत्यस्ति रोगस्य प्रत्यक्षरूपः।

Tuesday, June 25, 2019

अमेरिकीयविदेशमन्त्रिणः भारतयात्रा
-पुरुषोत्तमशर्मा
  नवदिल्ली> अमेरिकीय विदेशमन्त्री माइकल.आर.पाम्पियो त्रिदिवसीयसन्दर्शनाय भारतमागमिष्यति। संसदीयनिर्वाचनानन्तरं भारतामरिकादेशयो: नेतृणां मध्ये संवादं भविष्यति। अस्यां यात्रायां पाम्‍प‍ियो विदेशमन्त्रिणा एस.जयशङ्करेण अथ च प्रशासनाधिकारिभिः सह मेलनं करिष्यति। पाम्पियो वर्यस्य यात्रावधौ देशद्वयस्य मध्ये सामरिकसहयोगसम्वर्धनं चर्चिष्यते। एतदतिरिच्य देशद्वयं द्विपक्षीय-क्षेत्रीय-वैश्विकप्रकरणानि समेत्य परस्परम् उच्चस्तरीयां उभयतलचर्चां च करिष्यति।

Monday, June 24, 2019

 लोकसभायां ये सांसदा: संस्कृतेन शपथं स्वीकृतवन्त: तेषां नामानि
 वार्ताहर: जगदीश: डाभी, गुजरातम् ।
★मध्यप्रदेश: -
१) महेन्द्र: सोलंकी, शाजापुरम्
२) सुधीर: गुप्ता, मन्दसौरम्
३) अनिल: फिरोजिया, उज्जयिनी
४) गुमानसिंह: डामोर:, रतलाम
५) गजेन्द्र: पटेल:, खरगोनम्
६) छतरसिंह: दरबार:, धार:
७) साध्वी प्रज्ञा ठाकुर:, भोपालम्
८) रोडमल: नागर:, राजगढ़म्
९) दुर्गादास: उइके, बैतूलम्
★गुजरातम् -
१) डा. महेन्द्र: मुञ्जपरा, सुरेन्द्रनगरम्
२) देवुसिंह: चौहान:, खेड़ा
३) परबतभाई पटेल:, बनासकांठा
४) सी.आर.पाटील:, नवसारी
५) प्रभुभाई वसावा, बारडोली
★उत्तरप्रदेश: -
१) ब्रजभूषणशरणसिंह:, कैसरगंज
२) डा. सत्यपालसिंह:, बागपतम्
३) वीरेन्द्रसिंह:, बलिया
४) कुंवर पुष्पेन्द्रसिंह: चंदेल:, हमीरपुरम्
★राजस्थानम् -
१) स्वामी सुमेधानन्द: सरस्वती, सीकरम्
२) सुभाषचंद्र: बहेडिया, भीलवाडा
३) रामचरण: बोहरा, जयपुरम्
४) भागीरथः चौधरी, अजयमेरु:                       
★पश्चिम-वङ्गः -
१) डा. सुभाष सरकार:, बाङ्कुरा
२) सुरेन्द्रजीतसिंह: अहलुवालिया, दुर्गापुरम्
३) दिलीप: घोष:, मेदिनीपुरम्
★देहली -
१) डा. हर्षवर्धन:, चांदनी चौक
२) रमेशचन्द्र: विधूडी, दक्षिणदेहली
३) मीनाक्षी लेखी, नवदेहली
★हरियाणा -
१) सुनीता दुग्गल, सिरसा
२) डा.अरविंद: शर्मा
★झारखण्ड: -
१) निशिकांत: दुबे, गोड्डा
२) संजय: सेठ:, रांची
★उडीसा -
१) भतृहरि: महताब, कटक
२) प्रताप: शडङ्गी, बालासोर
★महाराष्ट्रम् -
१) उन्मेश: पाटील:, जळगांव
२) गिरीश: बापट:, पुणे
★बिहार:
१) अश्विनीकुमार: चौबे, बक्सरम्
२) अशोककुमार: यादव:, मधुबनी
★उत्तराखण्डम् -
१) तीरथसिंह: रावत:, गढ़वालम्
२) अजय: भट्ट:, नैनीताल,
★गोवा -
१) श्रीपाद: नाईक:, उत्तरगोवा
★असमम् -
१) दिलीप: सायकिया, मङ्गलदोई
★कर्णाटकम् -
१) अनन्त: हेगडे, उत्तरकन्नडम्