चन्द्रयानं-३ इत्यस्मै सर्वोच्चबहुमतिः।
चन्द्रयानं-३ २०२३ तमे वर्षे चन्द्रोपरितलम् अवतीर्णम्।
बंगलुरु> बहिराकाशमण्डले भारताय अभिमानोपलब्धिं प्रापितवत् चन्द्रयानं-३ पुनरपि आगोलप्रशस्तिम् अवाप्यते। American Institute of Aironotics & Astronautics (AIAA) इत्यस्मात् बहिराकाशक्षेत्रे दीयमानः सर्वोन्नतबहुमतिः 'गोदार्द् आस्ट्रोनोटिक्स्' पुरस्कारः चन्द्रयानं-३ इत्यस्मै लभ्यते। गुरुवासरे वाषिङ्टण् डि सि इत्यत्र सम्पन्ने प्रौढगम्भीरे कार्यक्रमे अमेरिकायां भारतस्य स्थानपतिः विनय क्वात्र नामकः ऐ ए आर् ओ संस्थायै पुरस्कारं स्वीकृतवान्।
AIAA संस्थायाः 'Ascent 2026' नामके मेलने आसीत् पुरस्कारोद्घोषणम्। चन्द्रोपग्रहस्य दक्षिणध्रुवे पेटकावतारणं कारितवत् प्रथमराष्ट्रं भवति भारतम्। २०२३ तमे वर्षे चन्द्रयानं-३ दौत्यस्य विक्रमनामकं पेटकं चन्द्रोपरितले मृदुपतनं कृत्वा चन्द्रमधिकृत्य बह्व्यः शास्त्रीयसूचनाः सङ्कलितवत्।













