'कोहिनूर्' भारताय प्रत्यर्पणीयं - मंदानी।
न्यूयोर्क्> ब्रिटिश राजपरिवारस्य पालने वर्तमानं कोहिनूर् रत्नं भारताय प्रत्यर्पणीयमिति न्यूयोर्क् नगरपतिना सोहरान् मंदानिना निर्दिष्टम्। ब्रिटनस्य चाल्स् राजस्य सन्दर्शनवेलायामासीत् मंदानेः अयं परामर्शः। राजानं प्रति साक्षात्सम्भाषणाय सन्दर्भः लभते चेत् रत्नप्रत्यर्पणाय तं प्रेरयिष्यामीति मंदानिनोक्तम्।
'प्रकाशस्य पर्वतः'
पेर्ष्या भाषायां कोहिनूर् इत्यस्य 'प्रकाशस्य पर्वतः' इत्यर्थः। १०५. ६ कारट् शुद्धोपेतमिदं रत्नं १३ तमे शतके कोल्लूर् खनेः [अद्यतनं तेलङ्कानं] काकतीयराजवंशस्य काले खनितमिति कथ्यते। तदनन्तरं मुगल-पेर्ष्य-अफ्गान-राजवंशैः उपसंक्रम्य रत्नं सिखमहाराजस्य दुलीपसिंहस्य हस्तं प्राप्तम्। १८४९ तमे वर्षे पञ्चाबः ब्रिटीशस्याधीने अभवत्। ततः रत्नं विक्टोरिया राज्ञ्याः हस्तगतमभवत्। तदा दशवयोमात्रात् सिखराजात् भीषणिमुपयुज्य करस्थीकृतमासीत् इति भारतस्य वादः।
भारतस्वातन्त्र्येनैव रत्नं प्रत्यानेतुं भारतस्य प्रयत्नः प्रारब्धः आसीत्।












