इस्रयेल-लेबननयोः युद्धविरामः सप्ताहत्रयम् अनुवर्तिष्यते।
दुबाय्> यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य मध्यवर्तित्वे वाषिङ्टणे सम्पन्नायां चर्चायां युद्धविरामं सप्ताहत्रयं यावत् अनुवर्तितुं इस्रयेलेन लबनेन च निश्चितम्।
एप्रिल् १६ तमे दिनाङ्के दश दिनानि यावत् विधत्तं युद्धविरामः एव दीर्घितः। इरानं विरुध्य युद्धं समापयितुम् उत्कृष्टसन्धिं प्रतीक्षते इति ट्रम्पेन प्रोक्तम्।