वाषिङ्टणः> अमेरिकायाः राजधान्यां वाषिङ्टण-नगरे 'हिल्टन होटल' पुनरपि वार्तासु प्रमुखस्थानं प्राप्तम्। शनिवासरे यदा अमेरिका-राष्ट्रपतिः डोनाल्ड ट्रम्पः 'व्हाइट हाउस' पत्रकारैः सह अस्मिन् होटले एकस्यां भोजनसभायां सम्मिलितः आसीत्, तदा दुरापन्नः अप्रतिक्षितः गुलिकाप्रहारः सर्वान् चकितान् अकरोत्।
तदनन्तरं 'सीक्रेट् सर्विस्' अभिकर्तारः सत्वरमेव ट्रम्प-महोदयं तस्मात् स्थानात् सुरक्षितरीत्या बहिः आनयन्। तस्मिन् समये प्रथममहिला मेलानिया ट्रम्प, उप-राष्ट्रपतिः जे.डी. वान्सः च अपि तेन सह मञ्चे उपस्थिताः आसन्।
अयं गुलिकाप्रहारः ४५ वर्षेभ्यः पूर्वम् अस्मिन्नेव विश्रमालये घटिताम् अन्यां भयानकां घटनां स्मारयति। १९८१-तमे वर्षे तत्कालीनः राष्ट्रपतिः रोनाल्ड् रीगनः अस्मिन्नेव विश्रमालये आक्रमितः आसीत्।
