'ओपेक्' अंगत्वं यू ए ई राष्ट्रेण परित्यजते।
दुबाय्> पेट्रोलियम् उत्पन्नानां निर्यातराष्ट्राणां सञ्चालकसमित्याः [Organization of Petroleum Exporting Countries - OPEC] अङ्गत्वं यू ए ई राष्ट्रं परित्यजति। मेय् प्रथमदिने 'ओपेक्', 'ओपेक् प्लस्' इति संघटनाद्वयात् अपसरिष्यतीति राष्ट्रेण उद्घोषितम्। राष्ट्रीयहितमालक्ष्य एव इदमपसरणमिति निगदितं च।
ओपेक् सख्येन सह ५९ संवत्सराणां संबन्ध एव यू ए ई राष्ट्रेण उपेक्ष्यते। १९६७ तमे वर्षे आसीत् राष्ट्रस्य ओपेक् प्रवेशः। तैलेन्धनोत्पादने नियन्त्रणं, प्रातिवेशिकराष्ट्रेण सौदी अरेब्यया सह अस्वारस्यः च अपसरणस्य हेतुरिति सूच्यते।