गंगा द्रुतमार्ग: राष्ट्राय समर्पितः ।
उत्तरप्रदेशस्य दीर्घतम: द्रुतमार्ग: भारतस्य बृहत्तमेषु हरितक्षेत्रपरियोजनासु अन्यतमः 'गंगा द्रुतमार्ग:' प्रधानमन्त्रिणा राष्ट्राय समर्पित:। ५९४ किलोमीटर् दीर्घ: अयं मार्ग: उत्तरप्रदेशस्य बृहत्तम: षट्श्रेणीयुक्तमार्ग: अस्ति य: राज्यस्य १२ जनपदान् संयोजयति। अस्य निर्माणाय ३६,२३० कोटिरूप्यकाणि व्ययीकृतानि। अनेन मार्गेण मेरठत: प्रयागराजपर्यन्तं यात्रासमय: ११ होरात: ६ होरासु सीमितं भविष्यति। इदानीं षट्श्रेणीयुक्त: अयं मार्ग: भविष्यकाले अष्टश्रेणी पर्यन्तं परिष्कर्तुं शक्यते तथा च अस्य मार्गस्य वेगपरिधिः प्रतिहोरायां १२० किलोमीटर् इति निश्चिता।
