OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 25, 2026

 युगपदेव ९५ ड्रोण्-विमानानि उड्डाययितुं शक्यं 'अट्लस् ' नाम चीनस्य नूतनम् आयुधं भारताय भीषां जनयिष्यति वा ?।

AI निर्मितचित्रम्

   बेय्जिङ्> आधुनिकयुद्धतन्त्रेषु आन्दोलात्मकं परिवर्तनम् आनयन् चीनेन "अट्लस् ड्रोण् स्वाम् ' नाम नूतना सुविधा बहिराविष्कृता। एकस्मादेव नियन्त्रणकेन्द्रात् युगपदेव शताधिकानि भ्रमरकाणि (drone) विक्षेपयितुं शक्यानि तथा तानि एकीकृत्य आक्रमणं कर्तुं शक्या नूतना सुविधा आगोलप्रतिरोधमण्डलेषु चर्चायाः बीजावापमकरोत्। चीनेन भारतस्य सीमाप्रदेशेषु सुविधामेतां विन्यासयितुं साध्यता अस्ति इत्यतः भारतेन जागरूकः भवितव्यः इति प्रतिरोधमण्डलस्थैः अधिकारिभिः पूर्वसूचना प्रदत्ता।