रष्येन भारताय नूतना क्षेपणास्त्ररोधकप्रणाली प्रदत्ता।
नवदेहली:> ' ओपरेषन् सिन्दूर्' इत्यस्य प्रथमवर्षपूर्त्यवसरे भारतस्य प्रतिरोधरक्षायाः आधारस्तम्भरूपां अन्यदेकाम् 'एस्-४००' (S-400) क्षेपणास्त्ररोधकप्रणालीं रष्यादेशः भारतं प्रति प्रेषितवान्। अस्याः प्राप्त्या भारते विद्यमानानां एस-४०० प्रणाीलीनां सङ्ख्या चतस्रः भविष्यति। उक्रेन्-देशेन सह युद्धे प्रवृत्ते सत्यपि, प्रधानमन्त्रिणः मोदिनः स्नेहाग्रहेण प्रेरितः पुतिन-महोदयः इमां प्रणालीं भारतं प्रति प्रेषितवान्।
गते ' ओपरेषन् सिन्दूर्' काले पाकिस्थानस्य भ्रमरक-यन्त्राणि (Drones) युद्धविमानानि च प्रतिरोद्धुं भारतस्य 'सुदर्शनचक्र' (S-400 इत्यस्य भारतीयनाम) प्रणाली प्रभावशालिनी अभवत्। भारतस्य प्रमुखनगराणि लक्ष्यीकृत्य प्रेषितानि पाकिस्थानस्य भ्रमरक-यन्त्राणि निष्प्रभीकर्तुं सुदर्शनचक्रेण प्रमुखा भूमिका निर्वूढा। ' ओपरेषन् सिन्दूर' मध्ये पाकिस्थानस्य 'अवाक्स' (AWACS) विमानं पातयितुं एस-४०० प्रणाल्याः साहाय्येन भारतं समर्थम् अभवत्। अनेन पाकिस्थानस्य आकाश-निरीक्षणक्षमता तथा च युद्धक्षेत्रे प्रत्याक्रमणं संयोजयितुं शक्यमाना सामर्थ्यं च विनष्टम् अभवत्।
