एकं राष्ट्रं एकं निर्वाचनम् इति निर्देशाय केन्द्रमन्त्रिमण्डलेन अनुमोदनं दत्तम्।
पूर्वराष्ट्रपतिः रामनाथः कोविन्दः अध्यक्षरूपेण स्थितस्य समितेः प्रतिवेदनाय केन्द्रमन्त्रिमण्डलेन अनुमोदनं दत्तम्। एषः विधेयकः शीतकालीने विधानसभा सत्रे प्रस्तूयते इति सूचना अस्ति। अद्य केन्द्रमन्त्रिमण्डलेन महत्त्वपूर्ण: निर्णय: स्वीकृत: इत्येतत् विशेषतया अत्र उल्लेखनीयं भवति। अस्य निर्णयस्य साहाय्येन २०२६ तमस्य निर्वाचनकाले एव युगपत् निर्वाचनार्थं व्यवस्थाथां कर्तुं भाजपा-सर्वकारस्य लक्ष्यं अस्ति।
२०२१ तमे वर्षे 'एकं राष्ट्रं एकं निर्वाचनम्' इति प्रस्तावः समुत्थितः। तदा












