OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 3, 2019

अध्ययनासमर्थता निराकर्तुं शक्यते इति नूतनं अध्ययनफलम्।

    कोच्ची> अध्ययनासमर्थता इदानीं  छात्राणां समस्या एव। शैक्षणिक-विमर्शकानां विचिन्तने इयं समस्या आसीत्।  इदानीं कैश्चन विद्वद्भिः ताः समस्याः परिहृताः।  मस्तिष्के समागतान् विवरणान् विशेषसमयक्रमेषु विविच्य क्रोडीक्रियते चेत् ह्रस्वकालीनान् स्मृतिशकलान् दीर्घकालीना स्मृतिः इति परिणमयितुं शक्यते। नूतनम् अध्ययनफलं भवति इदम्। सिंगपूर राष्ट्रियविश्व-विद्यालयस्य नाडिकावैज्ञानिकस्य डा. सजिकुमार श्रीधरस्य नेतृत्वे सम्पन्ने अध्ययने भवति इदं फलम्। अमेरिक्क-राष्ट्रस्य Proceedings of National Academy of Science इत्यस्य नूतनपुस्तके अध्ययनफलं प्रकाशितम् अस्ति। 
     मस्तिष्के समागतानां विवरणानाम् तीव्रताम् अनुसृत्य भवति, तानि दीर्घकालीनं वा ह्रस्वकालीनं वा इत्यस्य आधारः इति डा सजिकुमारः उक्ततवान् ।