OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, March 20, 2019

दक्षिणाफ्रिक्कन् राष्ट्रेषु जलोपप्लवः -
मरणसंख्या सार्धसहस्रमतीता।

चिमानिमानि (सिम्बाब्वे) >  मोसाम्बिक् , सिम्बाबवे , मलावी इत्यादिषु दक्षिणाफ्रिक्कन् राष्ट्रेषु 'इडायी' चक्रवातदुष्प्रभावस्य अनन्तरं सञ्जाते जलोपप्लवदुरन्ते मृत्युसंख्या १५०० अतीतेति सूच्यते। केवलं मोसाम्बिक् राष्ट्रे एव सहस्राधिकाः जनाः मृत्युवशं प्राप्ताः इति राष्ट्रपतिः फिलिप् न्यूसि असूचयत्। 
   दक्षिणाफ्रिक्कायां विंशति संवत्सराणामाभ्यन्तरे अनुभूतः महत्तमः जलोपप्लवः भवति इडायिचक्रवातमनुबन्ध्य सञ्जातः। गुरुवासरं यावत् वृष्टिरनुवर्तिष्यत इति पूर्वसूचनाप्यस्ति। किन्तु रक्षाप्रवर्तनाय दुस्साध्यरूपा स्थितिः वर्तते। 
  सिम्बाब्वे राष्ट्रे अपि जलोपप्लवदुष्प्रभावेण अयुताधिकं जनाः दुरितमनुभवन्तीति यू एन् संस्थया निगदितम्।