OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 19, 2019

३५अङ्गपरिमिते गोवाराज्ये  उपमुख्यमन्त्रिणौ द्वौ!
पनजी >  निर्यातस्य मुख्यमन्त्रिणः मनोहरपरीक्करस्य स्थाने मख्यमन्त्रिपदम् अलंकुर्वतः  प्रमोदसावन्तस्य मन्त्रिसभायाम् उपमुख्यमन्त्रिणौ द्वौ!  । अद्य उषसि द्विवादने आसीत् शपथक्रिया। भाजपादलस्य मित्रदलाभ्यां एकैकम् उपमुख्यमन्त्रिपदमपि अधिकारसुस्थित्यर्थं दत्त्वा एव निशानिशं शपथसमारोहः कृतः।  चत्वारिंशदङ्गसंख्यायुक्तं लघुराज्यमस्ति गोवा। त्रयस्त्रयसामाजिकैरुपेताभ्यां 'गोवा फोर्वेड् पार्टी' तथा 'महाराष्ट्रवादी गोमन्तक् पार्टी' इत्येताभ्यां दलाभ्यामेव उपमुख्यमन्त्रिस्थाने दत्ते। ४० अङ्गयुक्तायां विधानसभायां इदानीं ३५ सामाजिकाः विद्यन्ते।  वस्तुतः भजपादलस्य अङ्गबलम्  इदानीं १२एव। विपक्षदलस्य कोण्ग्रसः १४ सामाजिकास्सन्ति। कथञ्चिदपि शासनसुस्थितिव्यग्रता एव दृष्टा! 
  अधिकारप्रतिग्रहणाय कोण्ग्रस्दलेनापि अधमानि राजनैतिकतन्त्राणि प्रयुक्ष्यन्ते इति नात्र सन्देहः!