OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 17, 2019

आगोलतापनं - छात्रान्दोलनाय सहयोगः वर्धते। 
गतशुक्रवासरे न्यूसिलान्ट् राष्ट्रे संपन्नम् आन्दोलनम्। 
लण्टन् > भूमेः आगामिवंशस्य रक्षायै आविश्वं छात्रसमूहैः क्रियमाणाय अध्ययनविरामान्दोलनाय सहयोगः संवर्धते। आगोलतापनं न्यूनीकर्तुं फलप्रदाः पदक्षेपाः स्वीकर्तव्याः इति विश्वनेतॄन्  प्रति अर्थयन् उपशतं राष्ट्राणां छात्राः गतशुक्रवासरे अध्ययनविरामं कृत्वा नगरवीथिषु आन्दोलनं कृतवन्तः आसन्। 'फ्रैडे फोर् फ्यूचर्' [भविष्यत्कालाय शुक्रवासरः] इति संघटनमाश्रित्य एव प्रतिशुक्रवासरं विद्यार्थिनः पथान्दोलनं कुर्वन्तः सन्ति। 
 "उर्वीस्थाने अन्यन्नास्ति" , भविष्यत्कालो$स्माकं ध्वंसव्यो न युष्माभिः" , "पूर्विकान् अनुवर्तस्व" इत्यादिभिः घोषणावाक्यैः उपशतं राष्ट्राणां नगरेषु गतशुक्रवासरे दशलक्षाधिकाः छात्राः पथसञ्चलनमकुर्वन्निति निर्णीतम्! 
 आन्दोलकाः छात्राः न्यूसिलान्ट् प्रधानमन्त्रिण्या जसिन्डा आर्डेण् महाभागया अभिनन्दिताः! यू एन् संस्थायाः निदेशकमुख्येन अन्टोणियो गुट्टेरस् वर्येण च आन्दोलनाय सहयोगः प्रख्यापितः।