OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, March 14, 2019

बोयिङ् ७३७ माक्स् विमानानां भारतव्योम्नि डयनं निरुद्धम्। 
नवदिल्ली >  यावत् सुरक्षाविषये पूर्णसिद्धतां प्राप्नुवन्ति तावत् बोयिङ् ७३७ माक्स् विमानानि भारतस्य व्योमसीमाभ्यन्तरे डयितुम् अनुमतिः निरुद्धा। भारतस्य 'सिविल् एवियेषन्' संस्थायाः निदेशकमुख्येनैवायं निर्देशः कृतः। राष्ट्रान्तराणामपि अस्मिन् विभागे वर्तमानानि विमानान्यपि भारतव्योमाभ्यन्तरे डयनं न कार्यमिति आदिष्टम्। 
  एत्योप्यायां अस्य श्रेणीविमानस्य दुर्घटनया १५७ जनाः मृताः आसन्निति विषयमाधारीकृत्य एव 'डि जि सि ए' संस्थया एतादृशः निर्देशः कृतः। भारते 'स्पेस् जट्' तथा 'जट् एयर् वेय्स्' संस्थाद्वयेन निर्देशमनुसृत्य २० सेवनानि निरस्तानि। अद्य इतोप्यधिकाः  विमानसेवाः निरस्ताः भविष्यन्ति इति स्पेस् जट्' अधिकृतैः निगदितम्।