OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 26, 2019

केरले उष्णः अतितीव्रः ; सूर्यातपेन चत्वारि
मरणानि। 
कोच्ची >  केरले ग्रीष्मकालीनः आतपः अतितीव्रः जायमानः अस्ति। विविधप्रदेशेषु चत्वारः  जनाः सूर्यातपेन मृताः। अस्मिन् मासे एतावत्पर्यन्तं ११८ जनाः दाहव्रणिताः अभवन्। आगामिदिनेषु उष्णः त्रिचतुरडिग्री परिमितं वर्धिष्यते इति देशीयदुरन्तनिवारणसंस्थया पूर्वसूचना दत्ता। 
  कण्णूर्, एरणाकुलम्, अनन्तपुरी, पत्तनंतिट्टा जनपदेषु एकैकः मृत्युमुपगतः। सुर्यातपात् रक्षां प्राप्तुं दिनकाले एकादशवादनादारभ्य त्रिवादनपर्यन्तं सूर्यरश्मीणां साक्षात्पतनम् अपाकरणीयमिति विज्ञैः निगदितम्। उष्णः अतितीव्रः ; सूर्यातपेन चत्वारि मरणानि। 
कोच्ची >  केरले ग्रीष्मकालीनः आतपः अतितीव्रः जायमानः अस्ति। विविधप्रदेशेषु चत्वारः  जनाः सूर्यातपेन मृताः। अस्मिन् मासे एतावत्पर्यन्तं ११८ जनाः दाहव्रणिताः अभवन्। आगामिदिनेषु उष्णः त्रिचतुरडिग्री परिमितं वर्धिष्यते इति देशीयदुरन्तनिवारणसंस्थया पूर्वसूचना दत्ता। 
  कण्णूर्, एरणाकुलम्, अनन्तपुरी, पत्तनंतिट्टा जनपदेषु एकैकः मृत्युमुपगतः। सुर्यातपात् रक्षां प्राप्तुं दिनकाले एकादशवादनादारभ्य त्रिवादनपर्यन्तं सूर्यरश्मीणां साक्षात्पतनम् अपाकरणीयमिति विज्ञैः निगदितम्।