OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, March 9, 2019

जम्मु-काश्मीरे सैनिकः भीकरैरपहृतः।
   श्रीनगरं> जम्मुकाश्मीरे विरामकालमुपयुज्य स्वग्रामं प्राप्तः सैनिकः भीकरैरपहृत इति सूचना। जम्मुकाश्मीर् 'लइट् इन्फन्टरि' विभागे वृत्तिं कुर्वन् मुहम्मद् यासीन भट्ट् नामकः बद्गां जनपदस्थात् गृहात् अपहृतः। गतसप्ताहे एवेयं घटना प्रवृत्ता। विरामेण खाकिपोराग्रामस्थं गृहं प्राप्तः यासीनः कतिपय किलोमीटर् दूरस्थं काननप्रदेशमानीतः इति परिवाराङ्गैः सूचितम्। सैन्येन सविशेषकर्मसंघेन च अपहृताय पर्यवेषणमारब्धम्। गतवर्षे जूण् १४ तमे दिनाङ्के इतरः सैनिकः औरङ्गसीबाख्यः पुल्वामा जनपदस्थात् गृहात् अपहृतः व्यापादितः चासीत्।