OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, March 25, 2019

इदाई प्रचण्डवातः साहाय्येन प्रथमं भारतमागतम्।
-डा. अभिलाष् जे
    नवदेहली> आफ्रिक्क राष्ट्रेषु नाशं कृत्वा सप्तशत जनानां मृत्युहेतुभूतायां इदाई प्रचण्डवाभूमौ साहाय्यार्थं प्रथमतया भारतीयनाविकसेना आगता। जलप्लवात् १९२ जनान् अरक्षत् एवम् स्वास्थ्य शिबिरे १३८१ जनान् वैद्यसाहाय्यम् अयच्छन् इति नाविकसेनया उक्तम्।
   मोसांबिक्कात् साहाय्याभ्यर्थनात् परं भारतीय नाविकसेनायाः तिस्रः युद्धनौकाः तत्र अगच्छन्। ऐ एन् एस् सुजाता, ऐ सी सी एस् सारथी,  ऐ एन् एस् सारथी इति नौकाः तत्र रक्षाप्रवर्तनेषु भागभाजः अभजन्। भारतस्य चेतक् हेलिकोप्टर् तत्र निरीक्षणं करोति। तद्वारा भोजनवितरणं औषधवितरणं च प्रचलति।अधिकसाहाय्यार्थम् ऐ एन् एस् मगर् इति नौका अपि विना विलम्बं गमिष्यति। इदानीमपि प्रचण्डवातस्य बाधा वर्तते इत्यतः मरणसंख्या वक्तुं न शक्यते।