OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 26, 2019

वि वि पाट्ट् -अधिकानां पत्रखण्डानां गणना अनिवार्यतया कार्या -निर्वाचनायोगं प्रति उच्चतरन्यायालयः।
    नवदेहली>  मतदानयन्त्रैः साकं घटितेषु वि वि पाट्ट् इति यन्त्रेषु आगतानां पत्रखण्डानां गणना केेन काारणेन न वर्धनीया इति निर्वाचनायोगं प्रति उच्चतरन्यायालयः अवोचत्। दिनत्रयाभ्यन्तरे   अस्मिन्  सत्यप्रस्तावना दातव्या इति न्यायालयेन उक्ता। मतदान यन्त्रस्य संख्यया साकं वि वि पाट्टस्य पञ्चाशत् प्रतिशतं गणनाीयमिति निर्दिश्य एकविंशति प्रतिपक्षदलैः दत्तं निवेदनं परिगणयन्नासीत् न्यायालयः। 

   वि वि पाट्ट् पत्राणां गणनसंख्या वर्धनीया इति अस्माकं निर्देशः। युष्माकं निर्णयेन एव इदानीं गणना प्रचलति। सा वर्धनीया।  प्रति मण्डलानां वि वि पाट्ट् पत्रखण्डानां गणना प्रचलति। निर्वाचन संविधानं समीचीनतया प्रचलति इति विश्वसितुं हेतवः नः सविधे वर्तन्ते। पुनरपि तत् संवर्धयिष्यामः इति आयोगेन न्यायालये अवदत्।
      न्यायविभागेन सह कापि संस्था निर्देशेभ्यः दूरं न गन्तव्यमिति समस्यायाः समाधानरूपेण मुख्यन्यायाधिपेन रञ्जन् गोगोई महोदयेन उक्तम्। भवतां अधिकं विश्वासं अस्ति चेत् किमर्थं वि वि पाट्टस्य आनयनं कृतम्? वि वि पाट्ट् सुविधा केनापि प्रतिषिद्धं वा इति न्यायालयेन आयोगः पृष्टः। ऐप्रिल् प्रथमे दिनाङ्के याचिकायाः परिगणनान्दर्भे न्यायालयस्य साहाय्यं कर्तुं कञ्चन प्रौढकार्यकर्तारम् उपस्थापनीयमिति निर्वाचनायोगः  न्यायालयेन आदिष्टः।