OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, March 28, 2019

अत्युष्णः अनावृष्टिश्च  वर्धते ; केरले अतीवजाग्रतानिर्देशः
समाश्वासप्रवर्तनाय समितित्रयं रूपवत्कृतम्। 
अनन्तपुरी >  केरले अत्युष्णस्य शमनं नास्ति। गतदिने उपपञ्चाशत् जनाः तापव्रणिताः , द्वौ सूर्याघातितौ च। एतत्सप्ताहपर्यन्तं अत्युष्णः अनुवर्तिष्यते इति पर्यावरणविभागेन पूर्वसूचना दत्ता। एप्रिल् प्रथमसप्ताहपर्यन्तं दक्षिणभारते अत्युष्णः सामान्यतः द्विचतुर्डिग्री तावत् वर्धिष्यते। 
  अत्युष्णानावृष्टिसम्बन्धानां दुष्प्रभावानां समाश्वासप्रवर्तनाय केरलसर्वकारेण   कर्मसमितित्रयं रूपवत्कृतम्। अनावृष्टिः पानजलदौर्भ्यम् इत्यादीनां समाश्वासप्रवर्तनाय जलविभवविभागस्य तथा राजस्वविभागस्य च मुख्यकार्यदर्शिनोः नेतृत्वे प्रवर्तनानामेकोपनं विधास्यते। जलजन्यसांक्रमिकरोगाणां प्रतिरोधाय स्वास्थ्यविभागस्य नेतृत्वे कर्मसेना प्रवर्तिष्यते। जलदौर्लभ्येन जनावासस्थानम् अतिक्रम्यमाणान् वन्यमृगान् प्रतिरोद्धुं वनविभागश्च वर्तिष्यते।