OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, March 15, 2019

कपिशावरणेषु धनं प्रतिदिनं गृहं प्राप्नोति। अज्ञातं दानशीलम् अन्विष्यते ग्रामीणैः।
     स्पेयिन् राष्ट्रस्य विल्लाऱमियेल् इति ग्रामस्यजनाः सोत्भुतम् अन्विष्यते सः परोपकारी अज्ञातः मनुष्यः कः इति। आवश्यकानां गृहस्य पुरतः निलीय आगत्य धननिभृतं कपिशावरणं (Brown Cover) समर्प्य गच्छन् मनुष्यः कः इति ज्ञातुमेव भवति तेषां जिज्ञासा। मातामह्याः कथायां विद्यमाना रोबिन् हुड् इति कारुणिक कथापात्रमिव कारुण्य शीलम् एनं दृष्टुम् उत्सुकाः ते ग्रामीणाः। 
   विगते बुधवासरात् आरभ्य भवति दरिद्राणां ग्रामवासिनां कृते एवं धननिभृतावरणं लब्धुमारभत। पञ्चदश संख्याकानां गृहाणां पुरतः एवं धनराशिः समागता। आवरणस्य उपरि धनार्हाणां नामानि अपि लिखितानि सन्ति। केषाञ्चनावरणानाम् अन्तः १०० 'यूरो' धनम् अपि आसीत्। लब्धं धनं व्याजं वा इति ज्ञातुं केचन जनाः आरक्षकान् वित्तकोशान् च समुपगम्य धनपत्रस्य परीक्षा अपि कृता। धनपत्रं यथार्थमिति ज्ञात्वा जनाः तम् अज्ञातम् इदानीं नायकत्वेन कल्पितवन्तः।