OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, March 7, 2019

आरक्षक-मावोवादि दलयोः मध्ये जाते गोलिकाप्रहारे मावोनेता हतः। 
    कोच्ची> वयनाड् जनपदे लक्किटि देशे आरक्षक मावोवादि दलयोः मध्ये जाते गोलिकाप्रहारे मावो  नेता हतः। बुधवासरे रात्रौ आरब्धः गोलिकाप्रहरः गुरुवासरे प्रभातात् पूर्वं चतुर्वादनपर्यन्तं आनुवर्तितः।  मावोवादि दलनेता सि पि जलील् इत्यख्यः इति सूच्यते आरक्षकवृन्तैः।
   तद्देशीये निजीय-शय्यागृहस्य समीपे आसीत् घटना। शय्यागृहे विद्यमानानां जनानां पार्श्वतः धनम् आहर्तुम् आगताः आसन् मावोवादिनः । 'तण्डर् बाल्ट्' इति आरक्षक-सुरक्षा सेनानिन्यः मावोवादिनः आक्रमणान् प्रतिरोद्धुं कृते गोलिका प्रहारे एव मृतः मावोवादिनेता अन्ये दलस्थाः वनान्तर्भागे विस्फोटक गोलिकाशस्त्रादिभिः सह निलीनाः सन्ति।