OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, March 21, 2019

भारतस्य बालमरणेषु भूरि निवारयितुं शक्यमासीत् - अध्ययननिरूपणं प्रकाशितम्।
      कोच्ची> भारते पञ्चवयस्कादारभ्य पञ्चदशवयस्क-पर्यन्तं शिशुभ्यः दुरापन्नानां मृत्यूनां मानं न्यूनीकर्तुं शक्यमासीत् इत्यस्ति अध्ययननिरूपणम्। साङ्क्रमिकव्याधयः, जलेनिमज्जयित्वा मृत्युः, अपघातक्षतः, अर्बुदं च  भारतस्य शिशुमरणानां कारणत्वेन आवेदने वदति। लान् सेट् इति स्वास्थ्य मासिकायाम् अध्ययनं प्रकाशितम् अस्ति। कानडा राज्यस्य टोरन्टस्थे सेन्ट् मैकिल् आतुरालयस्य डा. षाह फाडलस्य नेतृत्वे आसीत् अध्ययनम्। पञ्च वयस्कपर्यन्तानां मृत्युमानस्य न्यूनीकरणे सफलता अस्ति। चेदपि ततः उपरिवयस्केभ्यः रक्षायै  प्रयत्नः  कोऽपि नास्ति इति आवेदने अस्ति।  भारतं, चीन, ब्रसील्, मेक्सिक्को राष्ट्रेषु भवति शिशूनां निधनमानेषु  अधिकतमाः।