OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, March 27, 2019

अरुणाचलः भारतस्य भागः - भूमानचित्रं चीनेन खण्डनं कृतम्।  
   नवदिल्ली> अरुणाचलप्रदेशं  भारतस्य भागः इति सूचितं विश्व-भूमानचित्रं चीनेन अवखण्डनं कृतम्। ३०,००० संख्यातीतानि चित्राणि चीनेन खण्डितनि। अरुणाचलं भारतस्य भागतया भूमानचित्रे आलेखितम् इत्यासीत् चीनस्य रोषस्य कारणम्। ताय्वानराष्ट्रं चीनस्य भागः इत्यपि भूमनचित्रे न लेखितम्।
भारतस्य पूर्वेत्तरभागेषु वर्तमानः अरुणाचलप्रदेशः त्रिविष्टपस्य (Tibet) भागः इत्यस्ति चीनस्य मतम्। 
      भारतस्य राष्ट्रनेतृणाम् अरुणाचलसन्दर्शनानि यस्मिन् अवसरे स्युः तस्मिन्नेव अवसरे सन्दर्शनं विरुद्ध्य चीनेन तेषाम् विप्रतिपत्तिः प्रकाशिता आसीत्। समीपकाले प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतं सन्दर्शनं विरुद्ध्य चीनेन प्रतिषेधः प्रदर्शितः आसन्। अरुणाचलः भारतस्य अविभाज्यभागः चीनस्य प्रतिषेधः विग्ण्यते इति भारतेन तदा उक्तम्।