OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, March 30, 2019

नीरवमोदिनः प्रातिभाव्यः पुनरपि निरस्तः। 

लण्टन् >  पि एन् बि वित्तकोशात् त्रयोदशसहस्रं कोटि रूप्यकाणि व्याजर्णरूपेण अपहृत्य देशान्तरं गतवतः नीरवमोदिनः प्रातिभाव्यः ब्रिट्टीष् नीतिपीठेन पुनरपि निरस्तः। गतदिने ब्रिट्टने 'वेस्ट् मिन्स्टर्' न्यायाध्यक्षनीतिपीठस्य न्यायाधीशेन एम्मा आर्बुत् नोट् इत्यनेनैव नीरवस्य प्रातिभाव्ययाचना निरस्ता। 
   प्रातिभाव्यः लभ्यते चेत् प्रमाणानि नाशयितव्यानि भविष्यन्ति, साक्षिणः स्वाधीनतां प्राप्स्यन्ते, उत व्यापादिताः भविष्यन्तीति वादः न्यायालयेन अङ्गीकृतः। निरस्तप्रातिभाव्यः नीरवमोदी 'वान्स् वर्त् ' कारागृहे बद्धः। अस्मिन् व्यवहारे आगामिवादः एप्रिल् २६ दिनाङ्के भविष्यति।