OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, March 11, 2019

भारते जनतन्त्रस्य महोत्सवः समागच्छति - प्रधानमन्त्री नरेन्द्रमोदी।
       नवदिल्ली >  निर्वाचन प्रख्यापनमधिकृत्य भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वाभिमतं प्रकाशितं यत् भारते जनन्त्रस्य महोत्सवः समागच्छति इति। निर्वाचनायोगेन लोकसभा निर्वाचनतिथीनां प्रख्यापनानन्तरं  ट्विट्टर् माध्यमद्वारा आसीत् मोदिनः मोदप्रकाशनम्। २०१९ तमस्य लोकसभा निर्वाचनं सम्पुष्टीकर्तुं भारतान् अभ्यर्थयामि। समागते निर्वाचने सम्पूर्णमतदानं भविष्यति इति मे विश्वासः। मतदानाय नूतनतया अधिकारं लब्धवन्तः अभिलेखनीयं मतदानं करणीयम्। गत ७० संवत्सरेण विगणिताय आधारसुविधा-विकासाय विगत-पञ्चवर्षाणि यावत् केन्द्रसर्वकारेण प्रयतितानि  इत्यपि  मोदिना टिट्वर् मध्ये लिखितम्।