OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 26, 2019

भारतस्य जूतकेन्द्रान् प्रति भीकराक्रमणसूचना।
     नवदिल्ली> रहस्यान्वेषकाणां प्रतिवेदने इस्लामिक् स्टेट् अल् ख्वयिदा इत्येते भीकरसंघटने आक्रमण पद्धतिः सज्जीकरुतः इत्यस्ति। अतीव श्रद्धा देयेति नवदेहली मुंबई गोवा इत्यादि राज्येषु आरक्षकान्  प्रति रहस्यान्वेषकविभागेन निर्देशः दत्तः। इस्रायेल् ऐंबसी कृते सुरक्षा वर्धिता। राष्ट्रे स्थितानां सिनगोग तथा स्मृतिमण्डपानां च सुरक्षा अपि वर्धयितुं निर्देशः अस्ति। मार्च् मासे विंशति दिनाङ्के प्रथमा सूचना आगता।ऐ एस् भीकरेण अबु हसनेन दत्ता सूचना रहस्यान्वेषकैः स्वीकृता अभवत्। पुनः मार्च् त्रयोविंशति दिनाङ्के समाना  सूचना आगता। तेषां सूच्यां गोवाराज्यस्य जूतानां कानिचन क्षेत्राणि अपि वर्तन्ते। तत्रापि निरीक्षणं सुरक्षा च सशक्तमकरोत्।