OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 18, 2019

पाकिस्थानस्य पूर्वराष्ट्रपतये परवेश मुषरफाय मृत्युदण्डः
  इस्‌लामबादः> पाकिस्थानस्य पूर्वराष्ट्रपतये परवेश मुषरफाय मृत्युदण्डः आदिष्टः। २००७ तमे शासनसंविधानं विगणय्य शासनं बलात् ग्रहीतवान् इति राष्ट्रद्रोहदोषाय पेषवार न्यायालयेन मृत्युदण्डः आदिष्टः। २०१४ तमे एषः दोषी इति न्यायालयेन निर्णीतः। २०१६ तम वर्षादारभ्य एषः दुबाय् देशे वसति। इदानीं तत्र चिकित्सायां वर्तते इत्यस्ति आवेदनम्। १९९९तम वर्षादारभ्य २००८ पर्यन्तम् आसीत् अस्य शासनकालः। तदा नवास् षेरीफः आसीत्  पाकिस्थानस्य प्रधानमन्त्री। २००७ तमे शासन संविधानम् अवमत्य आपातस्थितिं  स्थितिम् उद्घुष्टवान् सः इति विषयानुबन्धतया भवति प्रक्रमः।