OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 21, 2019

नागरिकतानियम-परिष्करण-विधेयकं संवर्द्धकत्वं कृत्वा  शैक्षिकविचक्षणाः अपि।

 नागरिकतानियम-परिष्करण-विधेयक समर्थनं कृत्वा
अनुष्‌ठितं पदसञ्चचलनम्।
       नवदिल्ली> नागरिकतानियम-परिष्करण-विधेयकं विरुद्ध्य पथसञ्चलनादिकं एकस्मिन् पार्श्वे प्रचलिते सति, विधेयकस्य संवर्द्धकत्वं कृत्वा  शैक्षिकविचक्षणाः अपरे पार्श्वे तिष्ठन्ति। नलन्द विश्वविद्यालयस्य उपकुलपतिः सुनैन सिंह्‌, जे एन् यु  पञ्जीकरणाधिकारी प्रमोदकुमारः, वरिष्ठपत्रकारः रचयिता राज्यसभा सामाजिकः स्वपनदासगुप्तः, व्यवसायी शिशिर बजोरिया च तेषां संयुक्तपत्रिकाद्वारा नियम-परिष्करण-विधेयकस्य समर्थनं कृत्वा उक्तवन्तः।
     नियमोयं बङ्ग्लादेशं पाकिस्थानम् इत्येताभ्यां समागतानां न्यूनपक्ष विभागिनां धर्मिणाम्  अभिलाषपूर्तीकरणाय युक्तम्।  कोण्ग्रस्, सि पि एम् आदिभिः राजनैतिकदलीयैः पूर्वमेव  वाञ्छितं कार्यं भवति अयं नियमः। अतः सर्वकारः अभिनन्दनम् अर्हति इति तैः संयुक्ततया  हस्ताक्षरीकृपत्रिकायां लिखितमस्ति। असत्यवक्तॄणां चार्वाकाणाम् कौटिकायां (trap) मा पततु, भाययित्वा निगूढरूपेण भारतं कलहग्रस्तं कर्तुम् उद्युक्तानां प्रवृत्तिषु खेदम् अनुभूयते इति एतैः उच्चते। राष्ट्रे अन्ताराष्ट्रस्तरे च विद्यमानस्य   विश्वविद्यालयस्य शैक्षिकप्रवराः अनुसन्धाधृभ्यः च आहत्य शताधिकसहस्रं विद्वांसः  अस्मिन् समर्थनपत्रे  हस्ताक्षीकृतवन्तः सन्ति।