OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 2, 2019

संस्कृत-चलनचित्रं मधुरस्मितम् - शाला प्रेक्षकैः सम्पूर्णा।
संस्कृतप्रेमिभ्यः उत्सवः
   कोच्ची> संस्कृतलोकेषु प्रप्रथमतया भवति बालकानां चलनचित्रम्। चित्रं द्रष्टुं जनाः आगमिष्यन्ति वा इति सन्देहः आसीत्। किन्तु तन् सन्देहान् दूरीकृत्य भवति नूतनस्य आवेदनस्य आगमनम्। केरले निर्मितं चलनचित्रं केरलसर्वकारस्य चलनचित्रालये एव प्रदर्शयन्ति। तिरुवनन्तपुरं, एरणाकुलं, तृश्शूर्, पालक्काट् जनपदानां सर्वकारीय चलनचित्रशालायामासीत् प्रदर्शनम्।  प्रतिदिनं मध्याह्नोपकाले ११ वादने  प्रदर्शनं प्रचलति। विद्यालय छात्राः अध्यापकैः सह समागत्य चित्रान् दृष्ट्वा सन्तोषेण गच्छन्तः सन्ति। सामान्यजनाः अपि सकुटुम्बं समागच्छन्ति च इति चलच्चित्रकाराणां मोदायभवति इति निर्देशकेन सुरेष् गायत्री महोदयेन उक्तम्। इदानी जनसमुदायेषु विद्यामानेषु छात्रसंबन्ध-समस्यामधिकृत्य विरचिता भवति कथा। ईदृशः कथातन्तुः चलनचित्रेषु इतःपर्यन्तं न स्वीकृतः आसीत्। औचित्यपुर्णतया  नूतनायाः  संस्कृतकथायाः रचना संस्कृताध्यापिकया बिजिला किषोर् वर्यया कृता भवति। मधुरमनोहरगानैः अलङ्कृतं भवति इदं चलनचित्रम्। बालिका बालकाः भवन्ति प्रधानकथापात्राणिl अभिनय चारुतया  ते तेभ्यः दायित्वं कृतवन्तः सन्ति।