OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 16, 2019

अग्निबाणपारीक्षा अमेरिक्केन क्रियते। रष्येन विप्रतिपत्तिः प्रकाश्यतेI
     मोस्को> अमेरिक्केन क्रियमाणम् अग्निबाणपरीक्षां विरुद्ध्य रष्यः  प्रतितिष्ठति। द्वौ मध्य-दूर आणवबाणौ एव अमेरिक्केन परीक्षायै सज्जं क्रियेते। परीक्षेयम् अन्ताराष्ट्र आणवनयानां लङ्घनं भविष्यति इति रष्यस्य सबाणसेनायाः 'कमान्टर् जनरल् सेर्जि काराकायेव् अवदत्। बाणयोः मध्ये प्रथमस्य १००० कि.मी परिधौ द्वितीयस्य ३००० कि. मी परिधौ च प्रहरक्षमता अस्ति। आणवशक्तिः अपि तयोः न भविष्यतः इति वक्तुं शक्तः कोऽपि नास्ति खलु  इति सेर्जि काराकायेव् पृष्टवान्। 
        गतसप्ताहे अमेरिक्केन भूतल बाणपरीक्षा  कृता आसीत्। सागरात् प्रयोक्तुं  क्षमतायुक्तस्य अस्य ५०० कि. मी सञ्चारक्षमता आसीत्। १९८७ तमे संवत्सरे उभयोः मिथः आणव-निर्व्यापन-सन्धौ हस्ताक्षरीकृतम् आसीत्। किन्तु अस्मिन् संवत्सरे अमेरिक्कः सन्धीतः प्रतिनिवर्तितवान्।