OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 15, 2019

भूमेः समीपेन गमिष्यति छिन्नग्रहः - भूमिः सुरक्षिता भविष्यति इति 'नास' 
     वाषिङ्‌टण्> दिसंबर् २६ दिनाङ्के बृहदाकारः एकः छिन्नग्रहः भूगोलस्य समीपेन गमिष्यति इति नास संस्थया उच्यते। 310442 (2000 CH59) इति ज्ञातः शिलाघण्डः २६ दिनाङ्के प्रभाते 07:54ന് (UTC) (2:54 a.m. EST) भूसमीपं प्राप्स्यति। समयेस्मिन्  भूमीतः 0.05 खगोलवैज्ञानिकमानम् अथवा 4.5 दशलक्षं मैल् दूरे भविष्यति इत्यपि नाससंस्थया  उच्यते।  919 तः ‍ 2,034 पादं यावत् अस्य व्यास: भविष्यति मन्यते। अस्य वेगः प्रति होरायां 27,500 कि. मी. इति अस्ति। दृष्टान्तत्वेन F16 जेट् युद्धविमानादपि १८ गुणित वेगेन भवति इति वक्तुं शक्यते।  २००० तमे संवत्सरे फेब्रुवरि द्वितीये दिनाङ्के लिनियर् सर्वे उपग्रहेण  छिन्नग्रहोयं प्रत्यभिज्ञातः।