OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, December 27, 2019

रोहिङ्ग्यवंशजानां जनानां देशान्तरगमनं सर्वेषां राष्ट्राणां दोषाय -षेय्क् हसीना।
-के.वि.रजीष्
     धाक्क > रोहिङ्ग्यवंशजानां देशान्तरगमनम् एष्य-पसफिक् मण्डलस्थानां सर्वेषामपि राष्ट्राणां दोषाय भवति इति बङ्‌ग्लादेशस्य प्रधानमन्त्रिणी षेय्क् हसीना। समस्यायाः अस्याः शाश्वतपरिहाराय अन्ताराष्ट्रसमूहस्य सहयोगः अनिवार्यः भवति इति तया अभिप्रेतम्। धाक्कमध्ये 'ग्लोबल् डयलोग् २०१९' कार्यक्रमस्य उद्घाटनं कृत्वा भाषामाणासीत् सा। एष्य-पसफिक् मण्डलस्थानां राष्ट्राणां मुख्या समस्या दारिद्र्यं तथा क्षुत्पीडा च भवतः इति सा अवदत्। अतः मण्डलस्यास्य सामाजिक-आर्थिकपुरोगत्यै सुरक्षायै च राष्ट्राणां परस्परसहयोगः अनिवार्यः- सा अवदत्। अधुना बङ्‌ग्लादेशं एकादश (११) लक्षाधिकाः रोहिङ्ग्यवंशजाः अधिवसन्ति। तेषु ७ लक्षाधिकाः जनाः म्यान्मारदेशस्य सैनिकध्वंसनात्परं बङ्‌ग्लादेशम् आगताः भवन्ति। २०१७ तमस्य सूचनानुसारं ४०००० रोहिङ्ग्यवंशजाः भारतम् अधिवसन्तः सन्ति।