OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 17, 2019

वैद्युतविमानसेवा समारब्धा
      न्यूयोर्क्> सम्पूर्णवैद्युतविमानस्य सेवा समारब्धा। विश्वस्य प्रथमं वैद्युतविमानं भवति इदम्। प्रथमसेवा कानडा राज्यस्य फेसर् नद्याः नौकामुखतः कोलम्बियां प्रति आसीत् उड्डयनम्। सीप्लेन्  संस्थायाः हार्बर् एयर् इत्यस्य संस्थापकः ग्रेग् मेक्डोगालः विमानम् उड्डयितवानासीत्। षट्जनान् वोढुम्  अस्य क्षमता अस्ति।  
     वाणिज्यसेवायै उपयोक्तुम् उद्दिश्य निर्मितं भवति इदम्। पञ्चाशातधिक सप्तशत (७५०) अश्वशक्तियुतं माग्नि पञ्चशतं (५००) इति व्यवस्था एव विमानस्य शक्तिरूपेण वर्तते। विद्युत्कोशस्य साहाय्येन प्रवर्तमानस्य अस्य शब्द-मलिनीकरणमानम् अतिन्यूनं भवति।