OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 25, 2019

आदिशङ्करस्य जन्मभूमीतः द्विचक्रिकया अरुण् तथागतः। लक्ष्यं विश्वदर्शनम्।

   बाङ्कोक्> आभारतम् अटनं कृत्वा अद्वैतसिद्धान्तस्य संस्थापनं कृतवान् आसीत्  आदि शङ्करः। ततः पूर्वम् आविश्वं   स्नेहमन्त्रं वितीर्य प्रकाशं प्रसृतवानासीत्  श्री बुद्धः। इदानीं द्विचक्रिकया सह आदिशङ्करस्य जन्मभूमीतः अरुण् तथागतो नाम सञ्चारी यात्रां समारभ्य ताय् लान्ट् देशं प्राप्तवानस्ति। ब्रह्मदेशस्य स्नेहं स्वीकृत्यानन्तरं भवति ताय् लान्ट्स्थम् अटनम्।

    देशस्नेहादुपरि देशः स्नेहयुक्तः भवतु इति तेन स्वस्य मुखपुस्तिकायाः (फेस् बुक्) पुटे लिखितम्। जनानां जीवनरीतिः तेषां मर्यादा, जीवनोपाधिः, द्रष्टव्यानि सांस्कृतिकदृश्यानि प्रकृतिदृश्यानि च सः स्वस्य मुखपुस्तके यथाकालं  प्रकाशयति। बुद्धस्य अहिंसां स्वात्मसु धृतवन्तः शान्तशीलाः भवन्ति देशवासिनः इति सः स्वस्य मुखपुस्तिकायां लिखितवान्।   यात्रां समाप्य प्रतिगमनं कदा भविष्यति इति प्रश्नस्य अरुण तथागतस्य  प्रत्युत्तरं सस्मितं अन्यः प्रश्नः आसीत् - 'यात्रा कदापि न अवस्यति मार्गः अपि तद्वत् किल?' एवमुक्त्वा द्वि चक्रिकायां सः स्वस्य यात्राम् अनुवर्तितवान्।