OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 28, 2019

तटाकाः संरक्षणीयाः, विद्यालयेषु प्रकृतिसंरक्षणाय अभ्यासः भवितव्यः -सर्वोच्चन्यायालयः। 

चित्रं -मातृभूमिः पत्रिका
  नवदिल्ली> सौविध्यविकासाय तटाकानां नाशः न भवतु, विद्यालयैः प्रकृतिसंरक्षणाय अधिकं प्राधान्यं दातव्यम् इति सर्वोच्चन्यायालयः निरदिशत्। प्रतिवारं एकहोरा  एतदर्थम् उपयोक्तव्या। आभारतम् एतस्य आयोजनाय प्रतिराज्यं आदेशः प्रेषणीयः इति   सर्वोच्चन्यायालयः निरदिशत्।
   दिल्यां गौतमबुद्धनगरे व्यवसायाभिवृद्धिम् उद्दिश्य तटाकाः मृत्पाषाणादिभिः पूरणाय अधिकारीभिः निश्चयः कृतः दृश्यते। तान् प्रक्रमान् विरुद्ध्य लब्धायां  याचिकायाम् अदेशप्रदानसन्दर्भे आसीत् सर्वोच्चन्यायालयस्य अयं निर्देशः।