OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 30, 2019

अमिताभ् बच्चन् महोदयः दादा साहेब् फाल्के पुरस्कारेण सम्मानितः।
-के.वि.रजीष् 
       नवदहली> हिन्दीसिनेमामण्डलस्य वरिष्ठः अभिनेता अमिताभ् बच्चन् महोदयः दादा साहेब् फाल्के पुरस्कारेण सम्मानितः। राष्ट्रपतिभवने सम्पन्ने आदरणसमारोहे राष्ट्रपतिना रामनाथकोविन्द् महोदयेन पुरस्कारः दत्तः। सिनेमामण्डले पञ्चाशत् वर्षाणां पूर्तीकरणवेलायाम् अनेन सर्वोत्तमपुरस्कारेण आदृतः इत्येतत् मधुरतरमेवेति प्रतिवचनवेलायां बच्चन् महोदयः अवदत्। अभिनयजीवने बच्चन् महोदयः चतुर्वारं देशीयपुरस्कारेण आदृतःवर्तते। एवमेव राष्ट्रं प्रति तेन कृतानि योगदानानि पुरस्कृत्य पद्मश्री, पद्मविभूषण्,पद्मभूषण् इत्यादिभिः प्रमुखैः पुरस्कारैरपि अयं महाशयः राष्ट्रेण आदृतः वर्तते।