OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 11, 2019

१४७५ कोटि डोलर् समाहृतः पीट्टर् ३५ वयसि दिवङ्गतः।
एषः खलु 'ऐस् बक्कट् चालञ्च्' परियोजनायाः प्रचोदकः। 

    आविश्वम् अतिप्रसिद्धा 'ऐस् बक्कट् चालञ्च्' परियोजनायाः प्रचोदकः पीट्टर् फ्रेट्स् (३५) दिवङ्गतः। अमिट्रोफिक् लाट्टरल् क्लिरोसिस् (AALS) इति रोगेण पीडितः आसीत्। ईदृशरोगेण पीडितानां  जनानां साहायाय एषः 'ऐस् बक्कट् चालञ्च्' परियोजना समारब्धवान्। हिमखण्डनिभृतं  द्रोणीजलं शिरसि प्रस्रवणं करणीयं तदनन्तरं त्रयान् एतदर्थं समाह्वनीयम् , यः समाह्वयितः सः हिमजलप्रस्रवणं करणीयं नो चेत्  १०० डोलर् रोग-बाधितानां समाश्‌वासनिधिं प्रति देयं   इत्यस्ति करणीयक्रमः। द्वावपि करणीयः इत्यस्ति करणीयं 'चालञ्च्'। 
     टों क्रूस्, स्टीवन् स्पिल् बर्ग्, बिल् गेट्स्, जोर्ज् बुष् इत्येते प्रमुखाः अस्यां भागं स्वीकृताः। मार्क् सुक्कर् बर्गः समाह्वानं स्वीकृत्य बिल्गेट्सं समाहृतवान् आसीत्। लक्षशाः जनाः परियोजनायां भागं स्वीकृताःl एवं १४७५ कोटि धनं समाहृतम् आसीत्।