OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 4, 2019

धूम्रपः न चेत् इयम् उद्योग संस्था  वेतनसहितानां षट्  दिनानां विरामाः अधिकतया दास्यति। 
      टोकियो> धूम्रपानशीलरहितानाम् उद्योगिनां कृते जपानस्य  पियाल इति उद्योगसंस्थया सवेदनं षट्दिनानाम् अधिकानि विरामदिनानि दास्यन्ते| टोकियो केन्द्रीकृत्य प्रवर्तमाना संस्था भवति 'पियाल इन् कोर्परेट्'I कर्मचारिणः इदानीं सन्तुष्टाःI  बहुलाट्टगृहस्य २९ तमे अट्टे भवति उद्योगसंस्था। धूम्रपानप्रियाः उद्योगिनः तदर्थ भूतले विद्यमानं धूम्रप्रकोष्टं गत्वा प्रत्यागमनाय पञ्चदशनिमेषाः आवश्यकाः। अनेन प्रवृत्तिसमयः नष्टः भविष्यति इति ज्ञात्वा एव एषः मार्गः स्वीकृतः इति। संस्थाधिपः टकावो असूकः अवदत्I इदानीं सामान्येन जापानस्य उद्योगसंस्थाः  कर्मकरान् धूम्रपानात् प्रत्यानेतुं यत्नं कुर्वन्तः सन्ति।